________________
१७३
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ____ १७३ स्यात् । कौञ्जायनी, कौआयना: ॥२०॥
नडादिभ्य आयनण् ।६।११५३॥ एभ्यो वृद्धे आयनण् स्यात् । नाडायनः, चारायण: ।२१।।
यत्रिजः ।६।११५४॥ वृद्धे यौ यञिञौ तदन्ताद् यूनि आयनण् स्यात् । गाायणः, दाक्षायण: ||२२||
शिवादेरण् ।६।११६०॥ शिवादेरपत्येऽण् स्यात् । शैव:, प्रौष्ठः ।।२३।।
पीला-साल्वा-मण्डूकाद् वा।६।१।६८॥ एभ्योऽपत्येऽण् वा स्यात् । पैलः, पैलेयः ; साल्व:, साल्वेयः ; माण्डूकः, माण्डूकिः ॥२४॥
दितेश्चैयण् वा ।६।१।६९॥ दितेर्मण्डूकाचाऽपत्ये एयण वा स्यात् । दैतेयः, दैत्यः ; माण्डूकेयः, माण्डूकि:
||२५||
याप्-त्यूङः ।६।१७०॥ चन्ताद् आबन्तात् [त्यन्ताद्] ऊङन्ताच्चापत्ये एयण् स्यात् । सौपर्णेयः, वैनतेयः, यौवतेयः, कामण्डलेयः ॥२६॥
द्विस्वरादनद्याः ।।११७१॥ द्विस्वराद् ङ्याप्-त्यूङन्तादनद्यर्थादपत्ये एयण् स्यात् । दात्तेयः । अनद्या इति किम् ? सैप्रः ॥२७॥
इतोऽनिञः ।६।१७२॥ इन्वर्जेदन्ताद् द्विस्वरादपत्ये एयण् स्यात् । नाभेय: । अनित्र इति किम् ? दाक्षायण: । द्विस्वरादित्येव, मारिच: ।।२८||
राष्ट्र-क्षत्रियात् सरूपाद् राजा-ऽपत्ये दिरञ् ।६।१।११४॥ राष्ट्र-क्षत्रियार्थाभ्यां [सरूपाभ्यां] यथासङ्ख्यं राजा-ऽपत्ययोरञ् स्यात्, स च द्रिः । विदेहा राजानः, अपत्यानि वा । सरूपादिति किम् ? सौराष्ट्रको
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org