________________
१७२
स्वोपज्ञरहस्यवृत्तिविभूषितं
वतोऽर्वागर्थेष्वनिदम्यणपवादे चाभ्यां यथासङ्ख्यं नञ्-स्नञौ स्याताम् । स्त्रैण:, पौंस्नः । प्राग् वत इति किम् ? स्त्रीवत् ।।१०।।
गोः स्वरे यः ।६।१२७॥ गोः स्वरादितद्धितप्राप्तौ यः स्यात् । गव्यम् । स्वर इति किम् ? गोमयम् ॥११॥
सोऽपत्ये ।६।१।२८॥ षष्ठयन्तादपत्येऽर्थे यथाविहितमणादय: स्युः । औपगव:, दैत्यः ।।१२।।
आयात् ।६।१२९॥ अपत्ये यस्तद्धितः स परमप्रकृतेरेव स्यात् । उपगोरपत्यमौपगवः, [तस्याऽप्यौपगवि:,] औपगवेरप्यौपगवः ।।१३।।
वृद्धाद् यूनि ।६।११३०॥ यूनि अपत्ये य: प्रत्यय: स आद्याद्यो वृद्धप्रत्ययस्तदन्तात्स्यात्। गार्ग्यस्यापत्यं युवा गाायणः ॥१४॥
अत इञ्।६।१॥३१॥ अदन्तात् षष्ठयन्तादपत्ये इञ् स्यात् । दाक्षिः ।।१५।।
बाह्वादिभ्यो गोत्रे।६।१॥३२॥ स्वापत्यसन्तानस्य स्वव्यपदेशहेतुर्य आद्यपुरुषस्तदपत्यं गोत्रम्, एभ्य: षष्ठयन्तेभ्यो गोत्रेऽर्थे इञ् स्यात् । बाहवि:, औपबाहविः ॥१६।।
विदादेवृद्धे ।६।११४१॥ एभ्यो वृद्धेऽपत्येऽञ् स्यात् । वैदः, और्वः ॥१७||
गर्गादेर्यञ् ।६।१४२॥ एभ्यः षष्ठयन्तेभ्यो वृद्धेऽपत्ये यञ् स्यात् । गार्ग्यः । वात्स्यः ।।१८।।
कुादे यन्यः ।।१४७॥ कुञ्जादे: षष्ठ्यन्ताद् वृद्धे ञायन्य: स्यात् । कौञ्जायन्य:, ब्राध्नायन्य: ॥१९॥
स्त्रीबहुष्वायनञ् ।६।१४८॥ कुञ्जादेः षष्ठयन्ताद् बहुत्वविशिष्टे वृद्धे स्त्रियां [चाऽ]बहुत्वेऽप्यायन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org