________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१६९
बन्धिः प्रकृति मविशेषणं च, बन्धेर्बन्धनस्य यन्नाम संज्ञा, तद्विषयात् करणार्थात् पराद् बन्धेस्तस्यैव सम्बन्धे णम् वा स्यात् । कौञ्चबन्धम्बद्धः ।।४।।
__ आधारात् ।।४।६८॥ आधारार्थात् पराद् बन्धेस्तस्यैव सम्बन्धे णम् वा स्यात् । चारकबन्धम्बद्ध:
॥४२॥
कर्तुर्जीव-पुरुषानश्-वहः ।५।४।६९॥ आभ्यां कर्तृभ्यां पराद् यथासङ्ख्यं नशेर्वहेश्च तस्यैव सम्बन्धे णम् वा स्यात् । जीवनाशं नश्यति, पुरुषवाहं वहति । कर्तुरिति किम् ? जीवेन नश्यति
॥४३॥
ऊर्ध्वात् पू:-शुषः ।।४।७०॥ कर्तुरूर्ध्वात् पूरः शुषश्च तस्यैव सम्बन्धे णम् वा स्यात् । ऊर्ध्वपूरं पूर्यते, ऊर्ध्वशोषं शुष्यति ।।४४।
व्याप्याच्चेवात् ।।४७१॥ व्याप्यात् कर्तुश्चोपमानात् पराद् धातोस्तस्यैव सम्बन्धे णम् वा स्यात् । सुवर्णनिधायं निहित:, काकनाशं नष्टः ।।४५।।
दंशेस्तृतीयया ।५।४।७३॥ तृतीयान्तेन योगे तुल्यकर्तृकार्थादुपपूर्वाद् दंशेर्धातोः सम्बन्धे णम् वा स्यात् । मूलकेनोपदंशं मूलकोपदंशम्, मूलकेनोपदश्य भुङ्क्ते ।।४६।।
हिंसार्थादेकाऽऽप्यात् ।५।४।७४॥ हिंसार्थाद् धातोर्धात्वन्तरेणैकाऽऽप्यात् तुल्यकर्तृकार्थात् तृतीयान्तेन योगे णम् वा स्यात् । दण्डेनोपघातं दण्डोपघातं दण्डेनोपहत्य वा गा: सादयति । एकाप्यादिति किम् ? दण्डेनोपहत्य चोरं गोपालो गा: खेटयति ।।४७||
उपपीड-रुध-कर्षस्तत्सप्तम्या ।५।४।७५॥ तृतीयया युक्ता सप्तमी तत्सप्तमी, तदन्तेन योगे उपपूर्वेभ्यस्तुल्यकर्तृकार्थेभ्यो धातो: सम्बन्धे णम् वा स्यात् । पार्वाभ्यामुपपीडं पार्थोपपीडं शेते, [पार्श्वयोरुपपीडं पार्थोपपीडं शेते ;] व्रजेनोपरोधं व्रजोपरोधम्, व्रजे उपरोधं व्रजोपरोधं गाः स्थापयति ; पाणिनोपकर्ष पाण्युपकर्षं धाना गृह्णाति ॥४८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org