SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं पञ्चम्या त्वरायाम् |५|४|७७॥ त्वरायां गम्यायां पञ्चम्यन्तेन योगे तुल्यकर्तृकार्थाद् धातोः सम्बन्धे णम् वा स्यात् । शय्याया उत्थायं शय्योत्थायं धावति, पक्षे शय्याया उत्थाय धावति । त्वरायामिति किम् ? आसनादुत्थाय याति || ४९ || द्वितीया |५|४|७८ ॥ १७० द्वितीयान्तेन योगे त्वरायां गम्यायां तुल्यकर्तृकार्थाद् धातोः सम्बन्धे णम् वा स्यात् । लोष्टान् ग्राहं लोष्टग्राहम्, लोष्टान् गृहीत्वा युध्यन्ते ॥ ५०|| विश- पत-पद- स्कन्दो वीप्सा - ऽऽभीक्ष्ण्ये | ५|४|८१ ॥ तुल्यकर्तृकार्थाद् द्वितीयान्तेन योगे [विश्यादेर्वीप्साऽऽभीक्ष्ण्ययोर्गम्ययोः]धातोः सम्बन्धे णम् वा स्यात् । गेहं गेहमनुप्रवेशं गेहानुप्रवेशमास्ते, गेहमनुप्रवेशमनुप्रवेशं गेहानुप्रवेशमास्ते, गेहं गेहमनुप्रपातं गेहानुप्रपातमास्ते, गेहमनुप्रपातमनुप्रपातं गेहानुप्रपातमास्ते; गेहं गेहमनुप्रपादं गेहानुप्रपादमास्ते, गेहमनुप्रपादमनुप्रपादं गेहानुप्रपादमास्ते; गेहं गेहमवस्कन्दं गेहावस्कन्दमास्ते, गेहमवस्कन्दमवस्कन्दं गेहाबस्कन्दमास्ते; पक्षे गेहं गेहमनुप्रविश्याऽऽस्ते, गेहमनुप्रविश्यानुप्रविश्यास्ते इत्यादि ॥ ५१ ॥ इच्छार्थे कर्मणः सप्तमी | ५|४|८९ ॥ इच्छार्थे धातावुपपदे तुल्यकर्तृकार्थात् कर्मभूताद् धातोः सप्तमी स्यात् । भुञ्जीयेति इच्छति । इच्छार्थ इति किम् ? भोजको याति । कर्मण इति किम् ? इच्छन् करोति ॥५२॥ - शक- धृष-ज्ञा-रभ-लभ-सहा ऽर्हग्ला - घटा ऽस्ति समर्थार्थे च तुम् - १५।४।९० ॥ शक्याद्यर्थेषु इच्छार्थेषु च धातुषु, समर्थार्थेषु च नामसूपपदेषु कर्मभूताद् धातोस्तुम् स्यात् । शक्नोति पारयति वा भोक्तुम्, एवं धृष्णोति, जानाति, आरभते, लभते, सहते, अर्हति, ग्लायति, घटते, अस्ति, समर्थः, इच्छति वा भोक्तुम् ॥५३॥ Jain Education International इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञसिद्धहेमचन्द्राभिधानशब्दानुशासनरहस्यवृत्तौ पञ्चमस्य चतुर्थः ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy