________________
१६८
स्वोपज्ञरहस्यवृत्तिविभूषितं
चर्मोदरात् पूरेः ।५।४।५६॥ आभ्यां व्याप्याभ्यां परात् तुल्यकर्तृकार्थात् पूरयतेर्धातो: सम्बन्धे णम् वा स्यात् । चर्मपूरमास्ते, उदरपूरं शेते ।।३३।।
वृष्टिमान ऊलुक् चास्य वा ।५।४।५७॥ व्याप्यात् परात् पूरयतेर्धातो: सम्बन्धे णम् वा स्यात्, पूरयतेरूतो लुक् च वा, समुदायेन वृष्टीयत्ताऽवग[म्य]ते । गोष्पदप्रम्, गोष्पदपूरं वा वृष्टो मेघः ॥३४॥
शुष्क-चूर्ण-रूक्षात् पिषस्तस्यैव ।५।४।६०॥ एभ्यो व्याप्येभ्य: परात् पिशूर्णम् वा स्यात्, तस्यैव धातो: सम्बन्धे । शुष्कपेषं पिनष्टि, एवं चूर्णपेषम्, रूक्षपेषम् ।।३५।।
कृग्-ग्रहोऽकृत-जीवात् ।५।४।६१॥ आभ्यां व्याप्याभ्यां पराद् यथासङ्ख्यं कृगो ग्रहेश्च तस्यैव सम्बन्धे णम् वा स्यात् । अकृतकारं करोति, जीवग्राहं गृह्णाति ।।३६।।
निमूलात् कषः ।५।४।६२॥ निमूलाद् व्याप्यात् परात् कषेस्तस्यैव सम्बन्धे णम् वा स्यात् । निमूलकाषं कषति, निमूलस्य काषं कषति ॥३७॥
हनश्च समूलात् ।५।४।६३॥ समूला व्याप्यात् पराद् हन्ते: कषेश्च तस्यैव सम्बन्धे णम् वा स्यात् । समूलघातं हन्ति, समूलकाषं कषति ।।३८।।
___ करणेभ्यः ।५।४।६४॥ करणार्थाद् पराद् हन्तेस्तस्यैव सम्बन्धे णम् वा स्यात् । पाणिघातं कुड्यमाहन्ति
॥३९॥
स्व-स्नेहनार्थात् पुष-पिषः ।५।४॥६५॥ स्वशब्दार्थात् स्नेहनार्थाच्च करणार्थात् पराद् यथासङ्ख्यं पुष: पिषश्च तस्यैव सम्बन्धे णम् वा स्यात् । स्वपोषं पुष्णाति, एवम् आत्मपोषम् । उदपेषं पिनष्टि, एवं क्षीरपेषम् ।।४०।।
बन्धेर्नाम्नि ।।४।६७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org