________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
एषूपपदेषु परकालेन तुल्यकर्तृके प्राक्कालेऽर्थे वर्त्तमानाद् धातोः सम्बन्धे ख्णम् वा स्यात् । पूर्वं भोजं याति, पूर्वं भुक्त्वा याति, एवम् अग्रे भोजम्, अग्रे भुक्त्वा ; प्रथमं भोजम्, प्रथमं भुक्त्वा ; पूर्वं भुज्यते ततो याति ||२६|| अन्यथैवं-कथमित्थमः कृगोऽनर्थकात् | ५|४|५० ॥
एभ्यः परात् तुल्यकर्तृकार्थात् कृगोऽनर्थकाद् धातोः सम्बन्धे ख्णम् वा स्यात् । अन्यथाकारम्, एवङ्कारम्, कथङ्कारम्, इत्थङ्कारं भुङ्क्ते, पक्षे अन्यथा कृत्वा । अनर्थकादिति किम् ? अन्यथा कृत्वा शिरो भुङ्क्ते ||२७|| यथा - तथादीर्य्योत्तरे |५|४|५१ ॥
१६७
आभ्यां परात् तुल्यकर्तृकार्थादनर्थकात् कृगो धातोः सम्बन्धे ख्णम् वा स्यात्, ईर्ष्यश्चेदुत्तरयति । कथं त्वं भोक्ष्यसे ? इति पृष्टोऽसूयया तं प्रत्याह-यथाकारमहं भोक्ष्ये तथाकारमहं भोक्ष्ये, किं तवानेन ? । ईष्र्योत्तर इति किम् ? यथा कृत्वाऽहं भोक्ष्ये तथा द्रक्ष्यसि ||२८||
शापे व्याप्यात् |५|४|५२॥
कर्मणः परात् तुल्यकर्तृकार्थात् कृगो धातोः सम्बन्धे ख्णम् वा स्यात्, आक्रोशे गम्ये । चोरङ्कारमाक्रोशति । शाप इति किम् ? चोरं कृत्वा हेतुभिः कथयति
॥२९॥
स्वाद्वर्थाद् अदीर्घात् |५|४|५३॥
स्वाद्वर्थाददीर्घान्ताद् व्याप्यात् परस्मात् तुल्यकर्तृकार्थात् कृगो धातोः सम्बन्धे ख्णम् वा स्यात् । स्वादुङ्कारं भुङ्क्ते, मिष्टङ्कारं भुङ्क्ते, पक्षे स्वादुं कृत्वा । अदीर्घादिति किम् ? स्वाद्वीं कृत्वा यवागूं भुङ्क्ते ||३०||
विद्-दृग्भ्यः कार्त्स्न्ये णम् |५|४|५४ ॥
कावतो व्याप्यात् परेभ्यस्तुल्यकर्तृके प्राक्कालेऽर्थे वर्त्तमानेभ्यो विदिभ्यो दृशेश्च धातोः सम्बन्धे णम् वा स्यात् । अतिथिवेदं भोजयति, कन्यादर्श वरयति । कार्त्स्न्ये इति किम् ? अतिथिं विदित्वा भोजयति ||३१|| . यावतो विन्द - जीवः | ५|४|५५ ||
I
कार्त्स्यवतो व्याप्याद् यावतः पराभ्यां तुल्यकर्तृकाभ्यां विन्द-जीविभ्यां धातोः सम्बन्धे णम् वा स्यात् । यावद्वेदं भुङ्क्ते, यावज्जीवमधीते ||३२||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org