SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं यत्यते वा । सूत्रमधीष्व, नियुक्तिमधीष्व, भाष्यमधीष्वेत्येवाधीते, पठ्यते वा ; पक्षे सूत्रमधीते, नियुक्तिमधीते, [भाष्यमधीते,] इत्येवाधीते, पठ्यते वा । व्रीहीन् वपत, लुनीत, पुनीतेत्येव यतध्वे, व्रीहीन् वप, लुनीहि, पुनीहीत्येव चेष्टध्वे ; पक्षे व्रीहीन् वपथ, लुनीथ, पुनीथेत्येव यतध्वे । सूत्रमधीध्वं नियुक्तिमधीध्वं भाष्यमधीध्वमित्येवाधीध्वे, सूत्रमधीष्व नियुक्तिमधीष्व भाष्यमधीष्वेत्येवाधीष्व (ध्वे ?) ; पक्षे सूत्रमधीध्वे नियुक्तिमधीध्ये भाष्यमधीध्वे । सामान्यार्थस्येति किम् ? व्रीहीन् वप लुनीहि पुनीहि इत्येव वपति लुना[ति पुना]तीति मा भूत् ॥२०॥ निषेधेऽलं-खल्वोः क्त्वा ।।४।४४॥ निषेधार्थयोरलं-खल्वोरुपपदयोर्धातो: क्त्वा वा स्यात् । अलं कृत्वा, खलु कृत्वा, पक्षे अलं रुदितेन ।।२१।। परा-ऽवरे ।५।४।४५॥ परे अवरे च गम्ये क्त्वा वा स्यात् । अतिक्रम्य नदी गिरिः, नद्यतिक्रमण गिरिः, [अप्राप्य नदी गिरिः,] नद्यप्राप्त्या गिरिः ।।२२।। निमील्यादि-मेङस्तुल्यकर्तृके ।५।४।४६॥ तुल्यो धात्वर्थान्तरेण कर्ता यस्य तवृत्तिभ्यो निमील्यादिभ्यो मेङश्च धातो: सम्बन्धे क्त्वा वा स्यात् । अक्षिणी निमील्य हसति, मुखं व्यादाय स्वपिति, अपमित्य याचते, पक्षे अपमातुं याचते। तुल्यकर्तृक इति किम् ? चैत्रस्याक्षिनिमीलने मैत्रो हसति ।।२३।। प्राकाले ।।४॥४७॥ परकालेन धात्वर्थेन तुल्यकर्तृके प्राक्कालेऽर्थे वर्त्तमानाद् धातोः सम्बन्धे क्त्वा वा । आसित्वा भुते, आस्यते भोक्तुम् । प्राक्काल इति किम् ? भुज्यते पीयते च ।।२४|| ख्णम् चाभीक्ष्ण्ये ।५।४॥४८॥ आभीक्ष्ण्ये परकालेन तुल्यकर्तृके प्राक्कालेऽर्थे वर्तमानाद् धातो: सम्बन्धे ख्णम् । क्त्वा च स्यात् । भोजं भोजं याति, भुक्त्वा भुक्त्वा याति ।।२५।। पूर्वा-ऽग्रे-प्रथमे ।।४॥४९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy