________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
गेयो गीतस्य, शतं दायी, गेयो गाथानाम् ॥ १३॥ अर्हे तृच् ।५।४|३७||
अर्हे कर्त्तरि वाच्ये तृच् स्यात् । त्वं कन्याया वोढा || १४ || आशिष्याशीः - पञ्चम्यौ | ५ | ४ | ३८ ||
आशीर्विशिष्टार्थाद् आशी : - पञ्चम्यौ स्याताम् । जीयात् जयतात् । आशिषीति किम् ? चिरं जीवति मैत्रः ||१५||
माङद्यतनी |५|४|३९||
१६५
माङि उपपदेऽद्यतनी स्यात् । मा कार्षीत् ||१६|| सस्मे ह्यस्तनी च |५|४|४०||
स्मयुक्ते माङ्युपपदे ह्यस्तन्यद्यतनी च स्यात् । मा स्म करोत्, मा स्म कार्षीत् ||१७||
धातोः सम्बन्धे प्रत्ययाः | ५|४|४१ ॥
धात्वर्थानां संबन्धे विशेषणविशेष्यभावे सति अयथाकालमपि प्रत्ययाः साधव: स्यु | विश्वदृश्वाऽस्य पुत्रो भविता भावि कृत्यमासीत्, गोमानासीत् ॥ १८॥ भृशा - sऽभीक्ष्ण्ये हि स्वौ यथाविधि त - ध्वमौ च तद्युष्मदि |५|४|४२ ॥
भृशा ऽऽभीक्ष्ण्ये सर्वकालेऽर्थे वर्त्तमानाद् धातोः सर्वविभक्तिवचनविषये हि स्वौ स्याताम्, यथाविधि धातोः संबन्धे यत एव धातोर्यस्मिन्नेव कारके हि - स्वौ तस्यैव धातोस्तत्कारकविशिष्टस्यैव अनुप्रयोगे सति, तथा पञ्चम्या एव त-ध्वमौ, तयोः सम्बन्धिनि बहुत्वविशिष्टे युष्मद्यर्थे हि स्वौ च स्यातां यथाविधि धातोः सम्बन्धे । लुनीहि लुनीहीत्येवायं लुनातीत्यादि, अधीष्वाधीष्वेत्येवायमधीते इत्यादि, लुनीत लुनीतेत्येव यूयं लुनीथ, लुनीहि लुनीहीत्येव यूयं लुनीथ, अधीध्वमधीध्व[ मि त्येव] यूयमधीध्वे, अधीष्वाधीष्वेत्येव यूयमधीध्वे । यथाविधीति किम् ? लुनीहि लुनीहीत्येवायं लुनाति, छिनत्ति, लूयते वेति धातोः संबन्धे मा भूत् ॥ १९ ॥ प्रचये नवा सामान्यार्थस्य |५|४|४३||
धात्वर्थानां समुच्चये गम्ये सामान्यार्थस्य धातोः सम्बन्धे सति धातोः परौ हि- स्वौ, त-ध्वमौ च तद्युष्मदि वा स्याताम् । व्रीहीन् वप, लुनीहि पुनीहि, इत्येव यतते, यत्यते वा ; पक्षे व्रीहीन् वपति, लुनाति, पुनाति इत्येव यतते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org