________________
स्वोपज्ञरहस्यवृत्तिविभूषितं
इच्छार्थे धातावुपपदे कामोक्तौ गम्यायां सप्तमी-पञ्चम्यौ स्याताम् । इच्छामि भुञ्जीत, भुङ्क्तां वा भवान् ।।७।।
विधि-निमन्त्रणा-ऽऽमन्त्रणा-ऽधीष्ट-सम्प्रश्न-प्रार्थने ।५।४॥२८॥
विध्यादिविशिष्टेषु कर्तृ-कर्म-भावेषु प्रत्ययार्थेषु सप्तमी-पञ्चम्यौ स्याताम् । विधिः क्रियायां प्रेरणा, कटं कुर्यात्, करोतु भवान् । प्रेरणायामेव यस्यां प्रत्याख्याने प्रत्यवायस्तनिमन्त्रणम्, द्विसन्ध्यमावश्यकं कुर्यात्, करोतु । प्रेरणायामेव यस्यां प्रत्याख्याने कामचारस्तदामन्त्रणम्, इहासीत, आस्ताम्। प्रेरणैव सत्कतु(सत्कारपूविका) अधीष्टम्, व्रतं रक्षेत्, रक्षतु । संप्रश्नः संप्रधारणा, किं नु खलु भो ! व्याकरणमधीयीय, अध्ययै, उत सिद्धान्तमधीयीय, अध्ययै ? । प्रार्थनं याच्ञा, प्रार्थना मे तर्कमधीयीय, अध्ययै ।।८॥
प्रैषा-ऽनुज्ञा-ऽवसरे कृत्य-पञ्चम्यौ ।५।४।२९॥ प्रैषादिविशिष्टे कर्नादावर्थे कृत्या: पञ्चमी [च] स्युः । न्यत्कारपूर्विका प्रेरणा प्रैषः, तेन खलु कट: कार्यः, स कटं करोतु, स हि प्रेषितोऽनुज्ञातस्तस्याऽवसर: कटकृतौ ।।९।।
काल-वेला-समये तुम्वाऽवसरे ।५।४॥३३॥ एषूपपदेष्ववसरे गम्ये धातोस्तुम् वा स्यात् । कालो भोक्तुम्, वेला भोक्तुम्, समयो भोक्तुम्, कालो भोक्तव्यस्य । अवसर इति किम् ? काल: पचति भूतानि ॥१०||
सप्तमी यदि ।५।४॥३४॥ यच्छब्दप्रयोगे कालादिषूपपदेषु सप्तमी स्यात् । कालो यदधीयीत भवान्, वेला यद् भुञ्जीत, समयो यत् शयीत ।।११।।
शक्तार्हे कृत्याश्च ।५।४।३५॥ __ शक्तेऽर्हे च कर्तरि गम्ये कृत्या: सप्तमी च स्युः । भवता खलु भारो वाह्यः, उह्येत, भवान् भारं वहेत्, भवान् हि शक्तः ; भवता खलु कन्या वोढव्या, उह्येत, भवान् खलु कन्यां वहेत्, भवानेतदर्हति ।।१२।।
णिन् चाऽऽवश्यका-ऽऽधमर्थे ।५।४॥३६॥ अनयोर्गम्ययो: कर्तरि वाच्ये णिन् कृत्याश्च स्युः । कारी, अवश्यंहारी, अवश्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org