________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
[ पञ्चमाध्याये चतुर्थः पादः ] सत्सामीप्ये सद्वद् वा | ५|४|१||
समीपमेव सामीप्यम्, वर्त्तमानस्य सामीप्ये भूते भविष्यति चार्थे वर्त्तमानाद् धातोर्वर्त्तमाने इव प्रत्यया वा स्युः । कदा चैत्र ! आगतोऽसि ? अयमागच्छामि, आगच्छन्तमेव मां विद्धि ; पक्षे अयमागमम्, एषोऽस्म्यागतः ; कदा मैत्र ! गमिष्यसि ? एष गच्छामि गच्छन्तमेव मां विद्धि: पक्षे एष गमिष्यामि, गन्तास्मि, गमिष्यन्तमेव मां विद्धि ||१||
सप्तम्यर्थे क्रियातिपत्तौ क्रियातिपत्तिः | ५ |४९ ॥
सत्सामीप्ये [५।४।१] इति सन्निधापितयोर्भूत वर्त्स्यतो : भूते [ ५|४|१० ] इत्यत्र भूतस्योपयोगात्, ततोऽन्यो वर्त्स्यदर्थोऽत्र ग्राह्यः, सप्तम्या [अ]र्थो निमित्तम्
उता प्यादिसामग्र्यम्, कुतश्चिद् वैगुण्यात् क्रियाया अनभिनिर्वृत्तौ सत्यामेष्यदर्थ
-
१६३
-
धातोः सप्तम्यर्थे क्रियातिपत्तिः स्यात् । उताऽकरिष्यत् | अप्यकरिष्यत् ||२|| भूते |५|४|१०||
भूतार्थाद् धातोः क्रियातिपत्तौ सत्यां सप्तम्यर्थे क्रियातिपत्तिः स्यात् । दृष्टो मयातवपुत्रोऽन्नार्थीचङ्क्रम्यमाणः, अन्यश्चातिथ्यर्थी, सयदि तेन दृष्टोऽभविष्यदुताभोक्ष्यत, अप्यभोक्ष्यत ॥३॥
Jain Education International
सप्तम्युता-: -Sप्यो
|५|४|२१॥ बाढार्थयोरुता-ऽप्योरुपपदयोः सप्तमी स्यात् । उत अपि वा कुर्यात् । बाढे इति किम् ? उत दण्डः पतिष्यति, अपि धास्यति द्वारम् ||४|| सम्भावनेऽलमर्थे तदर्थानुक्तौ |५|४|२२||
अलमोऽर्थे शक्तौ यत् सम्भावनं तस्मिन् गम्येऽलमर्थार्थस्याऽप्रयोगे सप्तमी स्यात् । अपि मासमुपवसेत् । अलमर्थं इति किम् ? निदेशस्थायी मे चैत्रः प्रायेण यास्यति । तदर्थानुक्ताविति किम् ? शक्तत्रो धर्मं करिष्यति ||५|| कामोक्तावञ्चित |५|४|२६॥
इच्छाप्रवेदने गम्ये सप्तमी स्यात्, न तु कञ्चित्प्रयोगे । कामो मे भुञ्जीत सः | अकच्चितीति किम् ? कच्चित् जीवति मे माता ||६|| इच्छार्थे सप्तमी - पञ्चम्यौ |५|४|२७||
For Private & Personal Use Only
www.jainelibrary.org