________________
१६०
स्वोपज्ञरहस्यवृत्तिविभूषितं
इषोऽनिच्छायाम् ।५।३।११२॥
पर्यधेर्वा ।५।३।११३॥ इति ।
क्रुत्संपदादिभ्यः विप् ।५।३।११४॥ क्रुधादिभ्योऽनुपसर्गेभ्यः, पदादिभ्यश्च समादिपूर्वेभ्य: स्त्रियां भावा-ऽकों: क्विप् स्यात् । क्रुत्, युत् ; संपत्, विपत् ॥४८-५०॥
व्यतिहारेऽनीहादिभ्यो ञः ।५।३।११६॥ व्यतीहारविषयेभ्य ईहादिवर्जधातुभ्यः स्त्रियां ञः स्यात्, बाहुलकाद् भावे । व्यावक्रोशी । अनीहादिभ्य इति किम् ? व्यतीहा, व्यतीक्षा ॥५१।।
नञोऽनिः शापे ।५।३।११७॥ नञः पराद्धातो: शापे गम्ये भावा-ऽकों: स्त्रियाम् अनि: स्यात्। [अजननिस्ते भूयात् । शाप इति किम् ? अकृति: पटस्य ।।५२।।
ग्ला-हा-ज्यः ।५।३।११८॥ एभ्य: स्त्रियां भावा-ऽकोरनि: स्यात् ।] ग्लानि:, हानि:, ज्यानिः ।।५३।।
. प्रश्ना-ऽऽख्याने वेञ् ।५।३।११९॥ प्रश्ने आख्याने च गम्ये स्त्रियां भावा-ऽकोर्धातोरिञ् वा स्यात् । कां कारि कारिकां क्रियां कृत्यां कृतिं वा अकार्षीः ? सर्वां कारिं कारिकां क्रियां कृत्यां कृति वा अकार्षम् ॥५४॥
पर्यायाऽर्हर्णोत्पत्तौ च णकः ।५।३।१२०॥ एष्वर्थेषु प्रश्ना-ऽऽख्यानयोश्च गम्ययोः स्त्रियां भावा-ऽकोर्धातोर्णक: स्यात् । भवत आसिका, अर्हसि त्वमिक्षुभक्षिकाम्, इक्षुभक्षिकां मे धारयसि, इक्षुभक्षिका उदपादि, कां कारिकामकार्षीः ? सर्वां कारिकामकार्षम् ।।५५।।
नाम्नि पुंसि च ।५।३।१२१॥ धातो: परो भावा-ऽकों: स्त्रियां संज्ञायां णक: स्यात्, यथालक्ष्यं पुंसि च । प्रच्छर्दिका, शालंभर्जिका, आरोचकः ॥५६।।
भावे ।५।३।१२२॥ धात्वर्थनिर्देशे स्त्रियां धातोर्णक: स्यात् । शायिका ।।५७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org