________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१५९
परेः सृ-चरेर्यः ।५।३।१०२॥ परिपूर्वाभ्यामाभ्यां भावा-ऽकों: स्त्रियां य: स्यात् । परिसर्या, परिचर्या ॥३८||
वाऽटाट्यात् ।५।३।१०३॥ अटेर्यङन्तात् स्त्रियां भावा-ऽकर्बोर्यो वा स्यात् । अटाटया, अटाटा ।।३९।।
- जागुरश्च ।५।३।१०४॥ जागु: स्त्रियां भावा-ऽकों: अ: यश्च स्यात् । जागरा, जागर्या ।।४०॥
शंसि-प्रत्ययात् ।५।३।१०५॥ शंसे: प्रत्ययान्ताच्च भावा-ऽकों: स्त्रियाम: स्यात् । प्रशंसा, गोपाया ॥४१॥
क्तेटो गुरोर्व्यञ्जनात् ।५।३।१०६॥ क्तस्येट् यस्मात् ततो गुरुमतो व्यञ्जनान्ताद् धातोर्भावा-ऽकोर: स्यात् । ईहा । क्तेट इति किम् ? स्रस्ति: । गुरोरिति किम् ? स्फूर्तिः । व्यञ्जनादिति किम् ? संशीतिः ॥४२।।
षितोऽङ् ।५।३।१०७॥ षितो धातोर्भावा-ऽकों: स्त्रियाम् अङ् स्यात् । पचा ॥४३॥
भिदादयः ।५।३।१०८॥ एते भावा-ऽकों: स्त्रियामङन्ता यथालक्ष्यं निपात्यन्ते । भिदा, छिदा॥४४॥ भीषि-भूषि-चिन्ति-पूजि-कथि-कुम्बि-चर्चि-स्पृहि-तोलि-दोलिभ्यः ।५।३।१०९॥ __ एभ्यो ण्यन्तेभ्यः स्त्रियां भावा-ऽकोरङ् स्यात् । भीषा, भूषा, चिन्ता, पूजा, कथा, कुम्बा, चर्चा, स्पृहा, तोला, दोला ॥४५।।
उपसर्गादातः ।५।३।११०॥ उपसर्गपूर्वाद् आदन्तात् स्त्रियां भावा-ऽकोरङ् स्यात् । उपदा । उपधा। उपसर्गादिति किम् ? दत्तिः ॥४६॥
णि-वेत्त्यास-श्रन्थ-घट्ट-वन्देरनः ।५।३।१११॥ ण्यन्ताद् वेत्त्यादिभ्यश्च स्त्रियां भावा-ऽकोरन: स्यात् । कारणा, वेदना, आसना, श्रन्थना, घट्टना++, वन्दना ॥४७॥ शेषात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org