SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १५८ स्वोपज्ञलघुवृत्तिविभूषितं विच्छेर्भावा-ऽकोंर्नङ् स्यात् । विश्नः ।।२७|| उपसर्गाद् दः किः ।५।३।८७। उपसर्गपूर्वाद् दासंज्ञाद् भावा-ऽकों: कि: स्यात् । आदिः, निधिः ॥२८|| व्याप्यादाधारे ।५।३।८८॥ व्याप्यात् पराद् दासंज्ञादाधारे कि: स्यात् । जलधिः ॥२९।। अन्तर्द्धिः ।५।३।८९॥ इति शेषात् ॥३०॥ अभिव्याप्तौ भावेऽन-जिन् ।५।३।९०॥ अभिव्याप्तौ गम्यायां धातोर्भावेऽन-जिनौ स्याताम् । संरविणम्, सांराविणम् । अभिव्याप्ताविति किम् ? संराव: ॥३१|| स्त्रियां क्तिः ।५।३।९१॥ धातोर्भावा-ऽकों: स्त्रियां क्ति: स्यात् । कृतिः । स्त्रियामिति किम् ? कार: ॥३२॥ गा-पा-पचो भावे ।।३।९५॥ +एभ्यो भावे स्त्रियां क्ति: स्यात् । सङ्गीतिः, प्रपीतिः, पक्तिः ॥३३॥ स्थो वा ।५।३।९६॥ स्थो भावे स्त्रियां क्तिर्वा स्यात् । प्रस्थितिः, आस्था ॥३४|| आस्यटि-व्रज्-यजः क्यप् ।५।३।९७॥ एभ्यो भावे स्त्रियां क्यप् स्यात् । आस्या, अट्या, व्रज्या, इज्या ॥३५॥ भृगो नाम्नि ।५।३।९८॥ भृगो भावे स्त्रियां संज्ञायां क्यप् स्यात् । भृत्या । नाम्नीति किम् ? भृति: ॥३६॥ कृगः श च वा ।५।३।१००॥ कृगो भावा-ऽकों: स्त्रियां शो वा स्यात्, क्यप् च । क्रिया, कृत्या, कृतिः ||३७|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy