________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् _१५७
रोरुपसर्गात् ।।३।२२॥ उपसर्गपूर्वाद् रौतेर्भावा-ऽकोंर्घञ् स्यात् । संरावः ||१७||
भू-यदोऽल् ।५।३।२३॥ एभ्य: उपसर्गपूर्वेभ्यो भावा- कोरल् स्यात् । प्रभव:, संश्रयः, विघसः । उपसर्गादित्येव, भावः, श्रायः, घासः ।।१८।।
न्यादो नवा ।५।३॥२४॥ निपूर्वाददेरलि घस्लभावोऽतो दीर्घश्व वा स्यात् । न्याद:, निघसः ॥१९।।
__ नेर्नद-गद-पठ-स्वन-कणः ।५।३॥२६॥ नेरुपसर्गात् परेभ्य एभ्यो भावा-ऽकोरल् वा स्यात् । निनदः, निनादः ; निगदः, निगादः ; निस्वनः, निस्वानः ; निक्कण:, निक्काण: ।२०॥
युवर्ण-वृ-दृ-वश-रण-गमृद्-ग्रहः ।५।३।२८॥ इवर्णोवर्णान्तेभ्यो वादेरृदन्तेभ्यो ग्रहेश्च भावा-ऽकोरल् स्यात् । चयः, क्रय:, रव:, लव:, वरः, आदर:, वशः, रणः, गमः, करः, ग्रहः ।।२१।।
समुदोऽजः पशौ ।५।३॥३०॥ आभ्यां परादज: पशुविषयार्थवृत्तेर्भावा-ऽकोरल् स्यात् । समज: उदज: पशूनाम् । पशाविति किम् ? समाज: उदाजो नृणाम् ।।२२।।
स्थादिभ्यः[कः] ।५।३।८२॥ एभ्यो भावा-ऽकों: क: स्यात् । आखूत्थो वर्त्तते, प्रस्थः, प्रपा ।।२३।।
ट्वितोऽथुः ।५।३।८३॥ ट्वितो धातोर्भावा-ऽकोरथुः स्यात् । वेपथुः ॥२४॥
ड्वितस्त्रिमा तत्कृतम् ।५।३।८४॥ ड्वितो धातोर्भावा-ऽकोंस्त्रिमक् स्यात्, तेन धात्वर्थेन कृतमित्यर्थे । पत्रिमम्
॥२५॥
यजि-स्वपि-रक्षि-यति-प्रच्छो नः ।५।३।८५॥ एभ्यो भावा-ऽकोर्न: स्यात् । यज्ञ:, स्वप्न:, रक्ष्णः, यत्न:, प्रश्न: ।।२६।।
विच्छो नङ् ।५।३।८६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org