SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् क्लीबे क्तः । ५।३।१२३॥ नपुंसके भावे धातोः क्तः स्यात् । हसितं तव । क्लीबे इति किम् ? हास: ॥५८॥ अनट् |५|३|१२४॥ क्लीबे भावेऽर्थे धातोरनट् स्यात् | गमनम् ||५९|| रम्यादिभ्यः कर्त्तरि ।५।३।१२६॥ एभ्यः कर्त्तरि अनट् स्यात् । रमणी, कमनी ॥ ६०॥ कारणम् ।५।३।१२७॥ इति शेषात् । करणा - ssधारे ||३|१२९॥ अनयोरर्थयोर्धातोरनट् स्याद् । एषणी, सक्तुधानी ।।६१-६२ ।। पुन्नाम्नि घः | ५|३ | १३०॥ पुंसः संज्ञायां गम्यायां धातोः करणा-ऽऽधारयोर्घः स्यात् । दन्तच्छदः, आकरः । पुमिति [ किम् ? ] विचयनी । नाम्नीति किम् ? प्रहरणो दण्डः । शेषात् गोचरः, संचरः, वहः, व्रजः, व्यजः, खलः, आपणः, निगमः, बकः, भगः, कषः, आकषः ||६३|| व्यञ्जनाद् घञ् ।५।३।१३२॥ व्यञ्जनान्ताद् धातोः पुन्नाम्नि करणा-ssधारे घञ् स्यात् । वेदः ||६४|| अवात् तृ-स्तृभ्याम् |५|३|१३३॥ १६१ आभ्यामवपूर्वाभ्यां करणाssधारयोः पुन्नाम्नि घञ् स्यात् । अवतारः, अवस्तारः ||६५ || शेषात् न्यायः, आवायः, अध्यायः, उद्यावः, संहारः, अवहारः, आधारः, दाराः, जारः || दुः-स्वीषतः कृच्छ्रा-ऽकृच्छ्रार्थे खलू |५|३|१३९॥ कृच्छ्रवृत्तेर्दुरोऽर्थादकृच्छ्रवृत्तिभ्यां च स्वीषद्भयां च पराद् धातोः खल् स्यात्। दुःशयम्, दुष्करः ; सुशयम्, सुकरः ; ईषच्छयम्, ईषत्करः । कृच्छाकृच्छ्रार्थ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy