SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १५५ [पञ्चमाध्याये तृतीय: पाद:] वर्त्यति गम्यादिः ।५।३।१॥ गम्यादयो भविष्यत्यर्थे इन्नाद्यन्ता: साधवः स्युः । गमी ग्रामम्, आगामी ||१|| भविष्यन्ती।५॥३॥४॥ वर्त्यदर्थाद् धातोर्भविष्यन्ती स्यात् । भोक्ष्यते ।।२।। अनद्यतने श्वस्तनी।५।३।५॥ नास्त्यद्यतनो यत्र तस्मिन् वय॑त्यर्थे वर्तमानाद् धातोः श्वस्तनी स्यात् । अनद्यतन इति किम् ? अद्य श्वो वा गमिष्यति ।।३।। पुरा-यावतोर्वर्त्तमाना ।५।३॥७॥ अनयोरुपपदयोर्वर्त्यदर्थाद् धातोर्वर्त्तमाना स्यात् । पुरा भुङ्क्ते, यावद् भुङ्क्ते ||४|| +कदा-कोर्नवा ।५।३॥८॥ अनयोरुपपदयोर्वर्ण्यदर्थाद्धातोर्वर्त्तमाना वा स्यात् । कदा भुङ्क्ते, कदा भोक्ष्यते, कदा भोक्ता ; कर्हि भुङ्क्ते, कर्हि भोक्ष्यते, कर्हि भोक्ता ।।५।। किंवृत्ते लिप्सायाम् ।५।३।९॥ विभक्त्यन्तस्य डतर-डतमान्तस्य च किमो वृत्तं किंवृत्तम्, तस्मिन्नुपपदे प्रष्टुर्लिप्सायां गम्यायां वर्त्यदर्थाद् धातोर्वर्त्तमाना वा स्यात् । को भवतां भिक्षां ददाति, दास्यति, दाता वा ? एवं कतरः कतम: । किंवृत्त इति किम् ? भिक्षां दास्यति । लिप्सायामिति किम् ? कः पुरं यास्यति ? ।।६।। लिप्स्यसिद्धौ ।५।३॥१०॥ लिप्स्यमानाद् भक्तादेः सिद्धौ फलावाप्तौ गम्यायां वर्त्यदर्थाद् धातोर्वर्त्तमाना वा स्यात् । यो भिक्षां ददाति, दास्यति, दाता वा, स स्वर्गलोकं याति, यास्यति, याता वा ||७|| पञ्चम्यर्थहेतौ ।५॥३॥११॥ पञ्चम्यर्थः प्रैषादिः, तस्य हेतुरुपाध्यायागमनादिः, तस्मिन्नर्थे वय॑ति वर्त्तमानाद् धातोर्वर्तमाना वा स्यात् । उपाध्यायश्चेद् आगच्छति, आगमिष्यति, आगन्ता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy