________________
स्वोपज्ञलघुवृत्तिविभूषितं
शं-सं-स्वयं-वि-प्राद् भुवो डुः ।५।२।८४॥ एभ्यः पराद् भुव: सदर्थाद् डुः स्यात् । शम्भुः, सम्भुः, स्वयम्भुवः (म्भुः), विभुः, प्रभुः ॥५३॥
पुव इत्रो दैवते ।५।२।८५॥ सदर्थात् पुवो दैवते कर्त्तरि इत्र: स्यात् । पवित्रोऽर्हन् ॥५४।।
ऋषि-नाम्नोः करणे ।।२।८६॥ ऋषि-संज्ञयो: सदर्थात् पुव: करणे इत्र: स्यात् । पवित्रोऽयमृषिः, दर्भ: पवित्र: ।।५५||
लू-धू-सू-खन-चर-सहा-ऽर्तेः ।५।२।८७॥ एभ्यः सदर्थेभ्य: करणे इत्र: स्यात् । लवित्रम्, धुवित्रम्, सवित्रम्, खनित्रम्, चरित्रम्, सहित्रम्, अरित्रम् ।।५६।।
नी-दाव्-शसू-यु-युज-स्तु-तुद-सि-सिच-मिह-पत-पा-नहस्त्रट् ।५।२।८८॥ एभ्य: सदर्थेभ्य: करणे त्रट् स्यात् । नेत्रम्, दात्रम्, शस्त्रम्, योत्रम्, योक्त्रम्, स्तोत्रम्, तोत्रम्, सेत्रम्, सेक्त्रम्, मेढ़म्, पत्त्रम्, पात्री, नद्री ।।५७||
ज्ञानेच्छा-ऽर्चार्थ-जीच्छील्यादिभ्यः क्तः ।५।२।९२॥ ज्ञानेच्छा-ऽर्चार्थेभ्यो जीद्भव: शीलादिभ्यश्च सदर्थेभ्य: क्तः स्यात् । राज्ञां ज्ञात:, राज्ञामिष्टः, राज्ञां पूजितः, मिन्नः, शीलितः, रक्षितः ।।५८।।
उणादयः ।५।२।९३॥ सदर्थाद् धातोरुणादयो बहुलं स्यु: । कारु:, ईड: ।।५९।।
पञ्चमस्य द्वितीयः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org