SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं चालार्थात् शब्दार्थाच्च धातोः शीलादिसदर्थादकर्मकाद् अनः स्यात् । चलनः, वरणः । अकर्मकादिति किम् ? पठिता विद्याम् ||२५|| इ- ङितो व्यञ्जनाद्यन्तात् |५|२|४४॥ व्यञ्जनमादिरन्तश्च यस्य तस्मादिदितो ङितश्च धातोः शीलादिसदर्थाद् अनः स्यात् । स्पर्द्धनः, वर्त्तनः । व्यञ्जनाद्यन्तादिति किम् ? एधिता, शयिता । अकर्मकादित्येव, वसिता वस्त्रम् ||२६|| न णिङ् - - सूद - दीप- दीक्षः | ५|२|४५ ॥ णिङन्ताद् यन्तात् सूदादिभ्यश्च शीलादिसदर्थेभ्योऽनो न स्यात् । भावयिता, क्ष्मायिता, सूदिता, दीपिता, दीक्षिता ||२७|| द्रम-क्रम ङः | ५|२|४६॥ शीलादिसदर्था[भ्यां] यङन्ताभ्यामाभ्याम् अनः स्यात् । दन्द्रमणः, १५२ ॥२८॥ यजि-जपि दंशि-वदादूकः |५|२|४७॥ एभ्यो यङन्तेभ्यः शीलादिसदर्थेभ्य ऊकः स्यात् । यायजूकः, जञ्जपूकः, दन्दशूकः, वावदूकः ||२९|| जागुः |५|२|४८ | शीलादिसदर्थाद् जागुरूकः स्यात् । जागरूकः ||३०|| शमष्टकाद् घिनण् ||५|२|४९॥ शीलादिसदर्थेभ्यः शमादिभ्योऽष्टभ्यो घिनण् स्यात् । शमी, दमी, तमी, श्रमी, भ्रमी, क्षमी, मादी, क्लमी ||३१|| शेषाद् युज- भुज-भज-त्यज-रञ्ज - द्विष-दुष- द्रुह- दुहाभ्याहनः | ५|२|५० ॥ आङः क्रीड - मुषः ||५।२।५१॥ प्राच्च यम- यसः | ५|२|५२ || Jain Education International चङ्क्रमणः मथ-लपः ।५।२।५३॥ वेश्व द्रोः | ५ | २|५४ ॥ वि-परि-प्रात् सर्त्तेः ।५।२।५५ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy