SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् श्राविष्ठायना:, गन्ता खेल: ॥१७॥ भ्राज्यलढग्-निराकृग्-भू-सहि-रुचि-वृति-वृधि-चरि-प्रजना-ऽपत्रप इष्णुः ।५।२।२८॥ एभ्य: शीलादिसदर्थेभ्य इष्णु: स्यात्। भ्राजिष्णुः, अलङ्करिष्णु:, निराकरिष्णु:, भविष्णु:, सहिष्णु:, रोचिष्णुः, वर्तिष्णु:, वर्द्धिष्णु:, चरिष्णु:, प्रजनिष्णु:, [अ]पत्रपिष्णुः ॥१८|| सन्-भिक्षा-ऽऽशंसेरुः ।५।२॥३३॥ शीलादिसदर्थात् सन्नन्ताद् भिक्षा-ऽऽशंसिभ्यां च उ: स्यात् । लिप्सुः, भिक्षुः, आशंसुः ॥१९॥ शीङ्-श्रद्धा-निद्रा-तन्द्रा-दयि-पति-गृहि-स्पृहेरालुः ।५।२॥३७॥ एभ्य: शीलादिसदर्थेभ्य आलुः स्यात् । शयालुः, श्रद्धालुः, निद्रालुः, तन्द्रालुः, दयालुः, पतयालुः, गृहयालुः, स्पृहयालुः ।।२०।। ङौ सासहि-वावहि-चाचलि-पापति ।५।२।३८॥ . शीलादिसदर्थानां सहि-वहि-चलि-पतां यङन्तानां डौ सति यथासङ्ख्यमेते निपात्यन्ते । सासहिः, वावहिः, चाचलिः, पापतिः । शेषात् सस्रि: चक्रि: दनि: जज्ञि: नेमिः ।।२१।। श-कम-गम-हन-वृष-भू-स्थ उकण् ।५।२।४०॥ शीलादिसदर्थेभ्य एभ्य उकण् स्यात्। शारुकः, कामुकः, [गामुकः,] घातुकः, वर्षक:, भावुकः, स्थायुकः ॥२२|| ___ लष-पत-पदः ।५।२।४१॥ शीलादिसदर्थेभ्य एभ्य उकण् स्यात् । अभिलाषुकः, प्रपातुकः, उपपादुक: ॥२३॥ भूषा-क्रोधार्थ-जु-सृ-गृधि-ज्वल-शुचश्चाऽनः ।५।२।४२॥ भूषार्थेभ्य: क्रोधार्थेभ्यो ज्वादेर्लषादेश्च शीलादिसदर्थेभ्योऽन: स्यात् । भूषण:, क्रोधनः, जवनः, सरण:, गर्द्धनः, ज्वलनः, शोचनः, अभिलषणः, पतनः, अर्थस्य पदनः ॥२४॥ चाल-शब्दार्थादकर्मकात् ।५।२।४३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy