________________
स्वोपज्ञलघुवृत्तिविभूषितं
भूतानद्यतने परोक्षार्थाद् धातोः परोक्षा स्यात् । धर्मं दिदेश तीर्थकरः ॥८॥
वाऽद्यतनी पुराऽऽदौ ।५।२।१५॥ भूतानद्यतनेऽर्थे वर्तमानाद्धातो: पुरादावुपपदे अद्यतनी वा स्यात्। अवात्सुरिह पुरा छात्रा:, पक्षे अवसन्, ऊषुर्वा ; तद(दाऽ)भाषिष्ट राघव:, पक्षे अभाषत, बभाषे वा ।।९।।
स्मे च वर्तमाना ।५।२।१६॥ भूतानद्यतनेऽर्थे वर्तमानाद् धातोः स्मे पुरादौ चोपपदे वर्तमाना स्यात् । पृच्छति स्म पुरोधसम्, वसन्तीह पुरा छात्राः, अथाऽऽह वर्णी ॥१०॥
सति ।५।२।१९॥ वर्त्तमानार्थाद् धातोर्वर्त्तमाना स्यात् । अस्ति, कूरं पचति, मांसं न भक्षयति, इहाधीमहे, तिष्ठन्ति पर्वताः ॥११॥
शन्त्रानशावेष्यति तु सस्यौ ।५।२।२०॥ सदर्थाद् धातो: शन्त्रानशौ स्याताम्, भविष्यन्तीविषये त्वर्थे स्ययुक्तौ । यान्, शयान:, यास्यन्, शयिष्यमाण: ।।१२।।
वा वेत्तेः कंसुः ।५।२।२२॥ सदर्थाद् वेत्तेः कंसुर्वा स्यात् । तत्त्वं विद्वान्, विदन् ।।१३।।
पूङ-यजः शानः ।५।२।२३। आभ्यां सदाभ्यां पर: शान: स्यात् । पवमानः, यजमानः ।।१४।।
वयः-शक्ति-शीले ।५।२।२४॥ एषु गम्येषु सदर्थाद् धातोः शान: स्यात् । स्त्रियं गच्छमानाः, समश्नाना:, परान् निन्दमाना: ।।१५।।
धारीङोऽकृच्छ्रेऽन्तृश् ।५।२।२५॥ सुखसाध्ये सत्यर्थे वर्तमानाद् धारेरिङश्च परोऽन्तृश् स्यात् । धारयन् आचाराङ्गम्, अधीयन् द्रुमपुष्पीयम् ।।१६।।
तृन् शील-धर्म-साधुषु ।५।२।२७॥ शीलादिषु सदर्थाद् धातोस्तृन् स्यात् । कर्त्ता कटम्, वधूमूढां मुण्डयितार:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org