SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १४८ स्वोपज्ञलघुवृत्तिविभूषितं ___ करणाद् यजो भूते ।५।१।१५८॥ करणार्थाद् नाम्न: पराद् भूतार्थाद् यजेर्णिन् स्यात् । अग्निष्टोमयाजी ।।९२।। निन्ये व्याप्यादिन् विक्रियः ।५।१।१५९॥ व्याप्याद् नाम्नः परात् भूतार्थाद् विक्रिय: कुत्स्ये कर्तरि इन् स्यात् । सोमविक्रयी। निन्द्य इति किम् ? धान्यविक्रायः ॥९३।। दृशः कनिप् ।५।१।१६६॥ व्याप्यात् पराद् भूतार्थाद् दृशेः क्वनिप् स्यात् । बहुदृश्वा ।।९४।। सह-राजभ्यां कृग्-युधेः ।५।१।१६७॥ आभ्यां कर्मभ्यां पराद् भूतार्थात् कृगो युधेश्च क्वनिप्स्यात्। सहकृत्वा, सहयुध्वा, राजकृत्वा, राजयुध्वा ।।९५।। ___ अनोर्जनेर्डः ।५।१।१६८॥ कर्मण: पराद् [अनुपूर्वात् भूतार्थाद् जनेर्डः स्यात् । पुमनुजः ॥९६।। सप्तम्याः ।५।१।१६९॥ सप्तम्यन्तात् पराद् भूतार्थाज्जनेर्ड: स्यात् । मन्दुरजः ।।९७|| अजातेः पञ्चम्याः ।५।१।१७०॥ पञ्चम्यन्तादजात्यर्थात् पराद् भूतार्थाद् जनेर्ड: स्यात् । बुद्धिजः । अजातेरिति किम् ? गजात् जातः ।।९८|| क्वचित् ।।१।१७१॥ उक्तादन्यत्रापि यथालक्ष्यं डः स्यात् । किञ्जः, अनुजः, स्त्रीजम्, ब्रह्मज्य:, वराहः, आखा ||९९|| सु-यजोवनिप् ।५।१।१७२॥ आभ्यां भूतार्थाभ्यां वनिप् स्यात् । सुत्वानौ, यज्वा ॥१०॥ जृषोऽन्तः ।५।१११७३॥ जृषेर्भूतार्थाद् अन्तृः स्यात् । जरती ॥१०१।। क्त-क्तवन्तू ।५।१११७४॥ भूतार्थाद् धातोरेतौ स्याताम् । कृतः, कृतवान् ।।१०२।। पञ्चमस्य प्रथमः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy