SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञलघुवृत्तिविभूषितं " पलितम्भावुकः ; प्रियम्भविष्णुः प्रियम्भावुकः; अन्धम्भविष्णुः, अन्धम्भावुकः, स्थूलम्भविष्णुः, स्थूलम्भावुकः ; सुभगम्भविष्णुः सुभगम्भावुकः ; आढ्यम्भविष्णुः, आढ्यम्भावुकः ; तदन्त - सुनग्नम्भविष्णुः, सुनग्नम्भावुक इत्यादि । अच्वेरिति किम् ? आयीभविता || ७३ || कृगः खनट् करणे । ५।१।१२९॥ नग्नादिभ्योऽच्व्यन्तेभ्यश्च्व्यर्थवृत्तिभ्यः परात् कृगः करणे खनट् स्यात् । नग्नङ्करणं द्यूतम्, पलितङ्करणम्, प्रियङ्करणम्, अन्धङ्करणम्, स्थूलङ्करणम्, सुभगङ्करणम्, आढ्यङ्करणम्, सुनग्नङ्करणम् । च्व्यर्थ इत्येव, नग्नं करोति द्यूतेन ॥ ७४|| भावे चाss शिताद् भुवः खः | ५ | १|१३० ॥ १४६ आशितात् पराद् भुवो भाव- करणयोः खः स्यात् । आशितम्भवस्ते, आशितम्भव ओदनः ॥७५॥ नाम्नो गमः खड् - डौ , नाम्नः पराद् गमेः खड् ड - खाः स्युः, विहायसो विहश्च । तुरङ्गः, विहङ्गः, तुरगः, विहगः, सुतङ्गमो मुनि:, [ तुरङ्गम:, ] विहङ्गमः || ७६ || शमो नान्यः | ५ | १|१३४॥ च, विहायसस्तु विहः | ५|१|१३१|| शमो नाम्नः पराद् धातोः संज्ञायाम् अः स्यात् । शम्भवोऽर्हन् । नाम्नीति किम् ? शङ्करी दीक्षा ||७७|| पार्श्वादिभ्यः शीङः ।५।१।१३५॥ आधारार्थान्नाम्नः एभ्यो नामभ्यः परात् शीङ: अः स्यात् । पार्श्वशयः, दिग्धसहायः ॥ ७८|| ऊर्ध्वादिभ्यः कर्तुः |५|१|१३६॥ एभ्यः कर्तृवाचिभ्यः परात् शीङः अः स्यात् । ऊर्ध्वशयः, उत्तानशयः ॥ ७९|| आधारात् ।५।१।१३७॥ : परात् शीङः अः स्यात् । खशयः ||८०| चरेष्टः ।५।१।१३८।। Jain Education International आधारार्थात् परात् चरेष्टः स्यात् | कुरुचरी || ८१ ॥ स्था-पा- स्नात्रः कः | ५ | १|१४२॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy