SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् एभ्यः कर्मभ्यः परात् कृगः खः स्यात् । मेघङ्करः, ऋतिङ्करः, भयङ्करः, अभयङ्करः ||६४ || परिमाणार्थ - मित-नखात् पचः | ५ | १|१०९ ॥ प्रस्थादि-मित-नखेभ्यः कर्मभ्यः परात् पचेः खः स्यात् । [ प्रस्थम्पचः, मितम्पचः, नखम्पचः ||६५ || कूला भ्र- करीषात् कषः | ५ | १|११० ॥ - एभ्यः कर्मभ्यः कषेः खः स्यात् । ] कूलङ्कषा, अभ्रङ्कषा, करीषङ्कषा || ६६ ॥ सर्वात् सहश्च । ५।१।१११॥ सर्वात् कर्मणः परात् सहेः कषेश्च खः स्यात् । सर्वंसह, सर्वङ्कषः ||६७ || भृ-वृ-जि-तृ-तप-दमे नाम्नि | ५ | १|११२ || कर्मणः परेभ्य एभ्यः सहश्च संज्ञायां खः स्यात् । विश्वम्भरा भूः, पतिंवरा कन्या, शत्रुञ्जयोऽद्रिः, रथन्तरं साम, शत्रुन्तपो राजा, बलिन्दमः कृष्णः, शत्रुंसहो राजा । नाम्नीति किम् ? कुटुम्बभारः ||६८ || धारेर्धर्च | ५ | १|११३॥ १४५ कर्मणः पराद् धारेः संज्ञायां खः स्यात्, धारेश्च धर् | वसुन्धरा भूः ||६९|| मन्याण्णिन् ।५।१।११६॥ कर्मणः पराद् मन्यतेर्णिन् स्यात् । पण्डितमानी बन्धोः ॥ ७० ॥ कर्तुः खश् ।५।१।११७॥ प्रत्ययार्थात् कर्तुः कर्मणः पराद् मन्यतेः खश् स्यात् । पण्डितम्मन्यः । कर्तुरिति किम् ? पटुमानी चैत्रस्य ||७१ || एजेः | ५|१|११८ ॥ Jain Education International कर्मणः परादेजयतेः खश् स्यात् । अरिमेजयः ॥ ७२ ॥ नग्न-पलित- प्रिया-ऽन्ध-स्थूल- सुभगा - ssढ्य - तदन्ताच्च्व्यर्थेऽच्वेर्भुवः खिष्णु - खुकञ् ।५।१।१२८॥ नग्नादिभ्यः केवलेभ्यस्तदन्तेभ्यश्चाच्च्यन्तेभ्यश्च्व्यर्थवृत्तिभ्यः पराद् भुवः विष्णु - खुकञौ स्याताम् । नग्नम्भविष्णुः, नग्नम्भावुकः ; पलितम्भविष्णुः, For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy