________________
१४४
स्वोपज्ञरहस्यवृत्तिविभूषितं
कुक्ष्यात्मोदराद् भृगः खिः ।५।१।९०॥ एभ्यः कर्मभ्य: पराद् भृग: खि: स्यात् । कुक्षिम्भरिः, आत्मम्भरिः, उदरम्भरिः
॥५७||
अ.ऽच् ।५।१९१॥ कर्मण: परादर्हेरच् स्यात् । पूजार्हा साध्वी ॥५८॥
हृगो वयोऽनुद्यमे ।५।११९५॥ कर्मण: पराद् हगो वयस्यनुद्यमे च गम्येऽच् स्यात् । अंशहरो दायाद: । उद्यम: उत्क्षेपणमाकाशे धारणं वा, तदभावे मनोहरा माला । वयोऽनुद्यम इति किम् ? भारहारः ।।५९॥
आङः शीले ।५।१९६॥ कर्मण: परादापूर्वाद् हग: शीले गम्येऽच् स्यात् । पुष्पाहरः । शील इति किम् ? पुष्पाहारः ॥६०॥
दृति-नाथात् पशाविः ।५।११९७॥ __ आभ्यां कर्मभ्यां परात् हग: पशौ कर्तरि इ: स्यात् । दृतिहरि: श्वा , नाथहरिः सिंहः ॥६॥
शकृत्-स्तम्बाद् वत्स-व्रीहौ कृगः ।५।१।१००॥ आभ्यां कर्मभ्यां परात् कृगो यथासङ्ख्यं वत्स-व्रीह्योः कोरि: स्यात् । शकृत्करिर्वत्सः , स्तम्बकरिीहिः ॥६२॥
क्षेम-प्रिय-मद्र-भद्रात् खा-ऽण् ।५।१।१०५॥ एभ्यः कर्मभ्य: परात् कृगः खा-ऽणौ स्याताम् । क्षेमङ्करः ,क्षेमकार: ; प्रियङ्करः , प्रियकार: ; मद्रङ्करः , मद्रकार: ; भद्रङ्करः , भद्रकारः ।।६३||
मेघर्ति-भया-ऽभयात् खः ।५।१।१०६॥ १. “कर्मण: पराद् हरतेर्वयसि अनुद्यमे च गम्यमाने अच् भवति, प्राणिनां कालकृताऽवस्था वयः, उद्यम उत्क्षेपणम् आकाशस्थस्य वा धारणम्, तदभावोऽनुद्यमः, अस्थिहर: श्वशिशुः, कवचहर: क्षत्रियकुमारः, अंशहरो दायादः । अनुद्यमे मनोहर: प्रासादः, मनोहरा माला ।' इति प्राचीनायां तालपत्रोपरि लिखितायां श्री सिद्धहेमचन्द्रशब्दानुशासनबृहद्वृत्तौ शुद्ध: पाठ: ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org