SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । कर्मणः परादनुपसर्गाद् गायतेष्टक् स्यात् । वक्रगी । अनुपसर्गादिति किम् ? खरुसंगायः ||४६|| सुरा - सीधोः पिबः | ५ | १|७५ ॥ आभ्यां कर्मभ्यां परादनुपसर्गात् पिबतेष्टक् स्यात् । सुरापी, सीधुपी ||४७|| आतो डोऽह्वा-वा-मः | ५ | १|७६ ॥ कर्मणः परादनुपसर्गाद् ह्वा-वा- मावर्जादादन्ताद् धातोर्डः स्यात् । गोदः । अह्वा-वा-म इति किम् ? स्वर्गह्वायः, तन्तुवायः, धान्यमायः ||४८|| समः ख्यः | ५ | १॥७७॥ कर्मणः परात् संपूर्वात् ख्यो ङः स्यात् । गोसङ्खयः ||४९|| दश्चाssङ: ।५।११७८ ॥ कर्मणः परादाङ्पूर्वाद् दागः ख्यश्च डः स्यात् । दायादः, स्त्र्याख्यः ||५०|| प्राज्ञश्च | ५ | ११७९ ॥ १४३ कर्मणः परात् प्रपूर्वाद् ज्ञो दारूपाच्च डः स्यात् । पथिप्रज्ञः, प्रपाप्रदः ||५१|| आशिषि हनः | ५ | ११८०॥ कर्मणः पराद् हन्तेराशिषि डः स्यात् । शत्रुहः || ५२|| क्लेशादिभ्योऽपात् ।५।११८१ ॥ क्लेशादिकर्मणः परादपाद् हन्तेर्डः स्यात् । क्लेशापहः, तमोऽपहः ||५३|| कुमार - शीर्षाण्णिन् ।५।१।८२ ॥ आभ्यां कर्मभ्यां पराद् हन्तेर्णिन् स्यात् । कुमारघाती, शीर्षघाती ॥५४॥ अचित्ते टक् ।५।१।८३॥ कर्मणः पराद् हन्तेरचित्तवति कर्त्तरि टक् स्यात् । वातघ्नं तैलम् । अचित्त इति किम् ? पापघातो यतिः ||५५ || ब्रह्मादिभ्यः | ५ | १|८५ ॥ एभ्यः कर्मभ्यः पराद् हन्तेष्टक् स्यात् । ब्रह्मघ्नः, गोघ्नः पापः । जायाघ्नी । पतिघ्नी कन्या । शक्तौ हस्तिघ्नः, बाहुघ्नः, कपाटघ्नः । नगरघ्नो गजान्यः ||५६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy