SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १४१ एभ्यो नामगणदृष्टेभ्योऽन: स्यात् । नन्दनः, वासन:, सहनः, संक्रन्दनः, सर्वदमनः, नर्दनः ।।२७|| ग्रहादिभ्यो णिन् ।५।११५३॥ एभ्यो णिन् स्यात् । ग्राही, स्थायी ॥२८॥ नाम्युपान्त्य-प्री-कृ-गृ-ज्ञः कः ।।११५४॥ नाम्युपान्त्येभ्यो धातुभ्यः, प्रचादिभ्यश्च कः स्यात् । विक्षिपः, प्रियः, किरः, गिरः, ज्ञः ॥२९॥ ___ उपसर्गादातो डोऽश्यः ।५।११५६॥ उपसर्गात् परात् श्यैङ्बर्जादाकारान्ताद् धातोर्ड: स्यात् । आह्वः । उपसर्गादिति किम् ? दायः । अश्य इति किम् ? अवश्यायः ॥३०॥ घ्रा-ध्मा-पा-ट्धे-दृशः शः ।५।११५८॥ एभ्य: श: स्यात् । जिघ्रः, उद्धमः, पिब:, उद्धयः, उत्पश्य: ।।३।। साहि-साति-वेद्युदेजि-धारि-पारि-चेतेरनुपसर्गात् ।५।१५९॥ एभ्योऽनुपसर्गेभ्यो ण्यन्तेभ्यः श: स्यात् । साहयः, सातयः, वेदयः, उदेजयः, धारयः, पारयः, चेतयः । अनुपसर्गादिति किम् ? प्रसाहयिता ॥३२।। लिम्प-विन्दः ।५।१।६०॥ आभ्यामनुपसर्गाभ्यां श: स्यात् । लिम्पः, विन्दः ।।३३।। वा ज्वलादि-दु-नी-भू-ग्रहा-ऽऽस्रोर्णः ।५।१६२॥ ज्वलादेादेरास्रोश्चानुपसर्गाण णो वा स्यात् । ज्वाल:, ज्वल: ; चाल:, चलः ; दावः, दव: ; नायः, नयः ; भाव:, भवः ; ग्राहो मकरादिः, ग्रहः सूर्यादिः ; आस्राव:, आस्रवः । अनुपसर्गादित्येव, प्रज्वलः ॥३४।। अवह-सा-संस्रोः ।५।११६३॥ अवपूर्वाभ्यां हृ-साभ्यां संपूर्वाच्च स्रोर्ण: स्यात् । अवहारः, अवसाय:, संस्राव: ||३५|| तन्-व्यधीण्-इवसातः ।५।१६४॥ एभ्य आदन्तेभ्यश्च धातुभ्यो ण: स्यात् । तान:, व्याधः, प्रत्यायः, श्वास:, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy