SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ० शत स्वोपज्ञरहस्यवृत्तिविभूषितं ___यम-मद-गदोऽनुपसर्गात् ।५।१॥३०॥ एभ्योऽनुपसर्गेभ्यो य: स्यात् । यम्यम्, मद्यम्, गद्यम् । अनुपसर्गादिति किम् ? आयाम्यम् ।।१७।। चरेराङस्त्वगुरौ ।५।१॥३१॥ अनुपसर्गाचरेरापर्वात् तु अगुरौ य: स्यात् । चर्यम्, आचर्यो देशः । अगुराविति किम् ? आचार्य: ।।१८।। नाम्नो वदः क्यप् च ।५।१॥३५॥ अनुपसर्गान्नाम्न: पराद् वदे: क्यप्-यौ स्याताम् । ब्रह्मोद्यम् । नाम्न इति किम् ? वाद्यम् ।।१९।। खेय-मृषोद्ये ।५।१॥३८॥ इति तु निपातनात् ।।२०।। दृ-वृग्-स्तु-जुषेति-शासः ।५।११४०॥ एभ्यः क्यप् स्यात् । आदृत्यः, प्रावृत्यः, अवश्यस्तुत्यः, जुष्य:, इत्यः, शिष्यः ॥२१॥ ऋदुपान्त्यादकृपि-चुदृचः ।५।११४१॥ ऋदुपान्त्याद्धातो: कृपि-वृति-ऋचिवर्जात् क्यप् स्यात् । वृत्यम् । अकृपिदृच इति किम् ? कल्प्यम्, चर्त्यम्, अय॑म् ।।२२।। ते कृत्याः ।।१।४७॥ घ्यण-तव्या-ऽनीय-य-क्यपः कृत्या: स्युः ।।२३।। णक-तृचौ ।५।११४८॥ धातोरेतौ स्याताम् । पाचकः, पक्ता ॥२४।। अच् ।५।१४९॥ धातोरच् स्यात् । कर:, हरः ।।२५।। लिहादिभ्यः ।५।११५०॥ एभ्योऽच् स्यात् । लेहः, शेषः ॥२६।। नन्यादिभ्योऽनः ।५।११५२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy