________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
१३२
अद्यर्थाचाऽऽधारे ।५।१।१२॥ आहारार्थात् धातोर्गत्यर्थादेश्च भूते य: क्तः स आधारे वा स्यात् । इदमेषां जग्धम्, तैर्जग्धम् ; इदं तेषां यातम्, तैर्यातम् ; इदमेषां शयितम्, तै: शयितम् ; इदं गवां पीतम्, गोभि: पीतम् ; इदं तेषां भुक्तम्, तैर्भुक्तम् ।।८।।
क्त्वा-तुमम् भावे ।५।१।१३॥ एते धात्वर्थमात्रे स्युः । कृत्वा, कर्तुम्, कारं कारं याति ।।९।। .
असरूपोऽपवादे वोत्सर्गः प्राक् क्तेः ।५।१।१६॥ इत: सूत्रादारभ्य स्त्रियां क्ति: [५।३।९१] इत्यत: प्राग् योऽपवादस्तद्विषयेऽपवादेनासमानरूप औत्सर्गिक: प्रत्ययो वा स्यात् । अवश्यलाव्यम्, अवश्यलवितव्यम् । असरूप इति किम् ? घ्यणि यो न, कार्यम् । प्राक् क्तेरिति किम् ? कृतिः, चिकीर्षा ॥१०॥
ऋवर्ण-व्यञ्जनाद् घ्यण् ।५।१।१७॥ ऋवर्णान्ताद् व्यञ्जनान्ताच्च धातोर्ध्यण् स्यात् । कार्यम्, पाक्यम् ।।११।।
___उवर्णादावश्यके ।५।१।१९॥ अवश्यम्भावे द्योत्ये धातोरुवर्णान्ताद् घ्यण् स्यात् । लाव्यम्, अवश्यपाव्यम्
||१२॥
आसु-यु-वपि-रपि-लपि-त्रपि-डिपि-दभि-चम्यानमः ।५।१॥२०॥
आपूर्वाभ्यां सु-नम्भ्यां यौत्यादेश्च घ्यण् स्यात्। आसाव्यम्, याव्यम्, वाप्यम्, राप्यम्, लाप्यम्, अपत्राप्यम्, डेप्यम्, दाभ्यम्, आचाम्यम्, आनाम्यम् ।।१३।।
तव्या-ऽनीयौ ।५।२७॥ एतौ धातो: स्याताम् । कर्त्तव्यः, करणीयः ।।१४।।
य एच्चाऽऽतः ।५।१॥२८॥ स्वरान्ताद् धातोर्य: स्यात्, आत एच्च । चेयम्, नेयम् ।।१५।। शकि-तकि-चति-यति-शसि-सहि-यजि-भजि-पवर्गात् ।५।१२९॥
एभ्य: पवर्गान्ताच्च य: स्यात् । शक्यम्, तक्यम्, चत्यम्, यत्यम्, शस्यम्, सह्यम्, यज्यम्, भज्यम्, तप्यम्, गम्यम् ॥१६||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org