________________
१३८
स्वोपज्ञरहस्यवृत्तिविभूषितं
[अथ पञ्चमोऽध्याय:] [प्रथम: पाद:]
आ तुमोऽत्यादिः कृत् ।५।१।१॥ धातोर्विधीयमानस्त्यादिवों वक्ष्यमाण: प्रत्ययस्तुमभिव्याप्य कृत् स्यात् । घनघात्यः । अत्यादिरिति किम् ? प्रणिस्ते ।।१।।
बहुलम् ।५।२२॥ कृद् यथानिर्दिष्टादर्थादन्यत्रापि बहुलं स्यात् । पादहारकः, मोहनीयं कर्म, संप्रदानम् ।।२।।
कर्त्तरि ।५।१॥३॥ कृत् अर्थविशेषोक्तिं विना कर्तरि स्यात् । कर्त्ता ।।३।।
भव्य-गेय-जन्य-रम्या-ऽऽपात्या-ऽऽप्लाव्यं नवा ।५।११७॥ . एते कर्तरि वा निपात्यन्ते । भव्यः, गेय: साम्नाम्, जन्य:, रम्यः, आपात्य:, आप्लाव्यः : पक्षे भव्यम्, गेयानि सामानि, जन्यम्, रम्यः, आपात्यम्, आप्लाव्यं तै: ॥४॥
श्लिष-शीङ्-स्था-ऽऽस-वस-जन-रुह-जु-भजेः क्तः ।५।१९॥
एभ्य: क्तो यो विहित: स कर्तरि वा स्यात् । आश्लिष्टः कान्तां चैत्र:, आश्लिष्टा कान्ता तैः ; अतिशयितो गुरुं शिष्यः, अतिशयितो गुरुः शिष्यैः ; उपस्थितो गुरुं शिष्यः, उपस्थितो गुरुः शिष्यैः ; उपासिता गुरुं ते, उपासितो गुरुस्तैः; अनूषिता गुरुं ते, अनूषितो गुरुस्तैः ; अनुजातास्तां ते, अनुजाता सा तैः ; आरूढोऽश्वं सः, आरूढोऽश्वस्तैः ; अनुजीर्णास्तां ते, अनुजीर्णा सा तैः; विभक्ता: स्वं ते, विभक्तं स्वं तैः ।।५।।
आरम्भे ।५।१।१०॥ भूते य: क्तो विहित: स आरम्भार्थाद् धातोः कर्तरि वा स्यात् । प्रकृताः कटं ते, प्रकृत: कटस्तैः ।।६।।
गत्यर्था-ऽकर्मक-पिब-भुजेः ।५।११११॥ भूते य: क्तो विहितः [स] एभ्य: कर्तरि वा स्यात् । गतोऽसौ ग्रामम्, गतोऽसौ तैः ; आसितोऽसौ, आसितं तैः ; पीता: पय:, पीतं पयः ; भुक्तास्ते, इदं तैर्भुक्तम् ।।७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org