________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
गौः । यीति किम् ? आलब्धाः ।।९२।।
उपात् स्तुतौ ।४।४।१०५॥ उपात् परस्य लभः स्वरात् परो यादौ प्रत्यये स्तुतौ गम्यायां न् अन्त: स्यात् । उपलम्भ्या विद्या । स्तुताविति किम् ? उपलभ्या वार्ता ।।९३।।
त्रि-ख्णमोर्वा ।४।४।१०६॥ ञौ ख्णमि च लभ: स्वरात् परो न अन्तो वा स्यात् । अलाभि, अलम्भि । लाभं लाभम्, लम्भं लम्भम् ।।९४||
उपसर्गात् खल्घञोश्च ।४।४।१०७॥ उपसर्गाद् लभः स्वरात् पर: खल्-घजोर्जि-ख्णमोश्च परयो अन्त: स्यात् । दुष्प्रलम्भम्, प्रलम्भ:, प्रालम्भि, प्रलम्भं प्रलम्भम् । उपसर्गादिति किम् ? लाभः ॥९५||
सु-दुर्व्यः ।४।४।१०८॥ आभ्यां व्यस्त-समस्ताभ्याम् उपसर्गात् पराभ्यां परस्य लभ: स्वरात् पर: खल्यञोर्न अन्तः स्यात् । अतिसुलम्भम्, अतिदुर्लम्भम् ; अतिसुदुर्लम्भम्, अतिसुलम्भः, अतिदुर्लम्भः ; अतिसुदुर्लम्भ: । उपसर्गादित्येव, सुलभम् ।।९६।।
नशो धुटि ।४।४।१०९॥ नशे: स्वरात् परो धुडादौ प्रत्यये न् अन्त: स्यात् । नंष्टा । धुटीति किम् ? नशिष्यति ।।९७||
मस्जेः सः ।४।४।११०॥ मस्जे: स्वरात् परस्य सो धुडादौ प्रत्यये न अन्त: स्यात् । मङ्का ।।९८।।
अः सृजि-दृशोऽकिति ।४।४।१११॥ अनयोः स्वरात् परो धुडादौ प्रत्यये अदन्त: स्यात्, न तु किति । स्रष्टा, द्रष्टुम् । अकितीति किम् ? सृष्टः ।।९९।।
स्पृशादि-सृपो वा ।४।४।११२॥ स्पृश-मृश-कृष-तृप-दृपां सृपश्च स्वरात् परो धुडादौ प्रत्यये अदन्तो वा स्यात्, अकिति । स्प्रष्टा, स्पर्टी ; प्रष्टा, मर्टा ; क्रष्टा, कर्टा ; त्रप्ता, तप्त ; द्रप्ता, दर्ता ; सप्ता, सप्र्ता ॥१००।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org