SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १३४ स्वोपज्ञरहस्यवृत्तिविभूषितं ___ अत्ते रुत्पञ्चकाच्च दिस्योरादिरट् स्यात् । आदत्, आदः ; अरोदत्, अरोदः ॥८३॥ संपरेः कृगः स्सट् ।४।४।९१॥ आभ्यां परस्य कृग आदिः स्सट् स्यात् । संस्करोति कन्याम्, परिष्करोति ||८४॥ उपाद् भूषा-समवाय-प्रतियत्न-विकार-वाक्याध्याहारे ।४।४।९२॥ उपात् परस्य कृगो भूषादिष्वर्थेष्वादिः स्सट् स्यात् । कन्यामुपस्करोति, तत्र न उपस्कृतम्, एधोदकमुपस्कुरुते, उपस्कृतं भुङ्क्ते, सोपस्कारं सूत्रम् ।।८५|| उदितः स्वरान्नोऽन्तः ।४।४।९८॥ उदितो धातो: स्वरात् परो न् अन्त: स्यात् । नन्दति, कुण्डा ॥८६।। मुचादि-तृफ-दृफ-गुफ-शुभोभः शे।४।४।९९॥ एषां शे परे स्वरान्न् अन्त: स्यात् । मुञ्चति, पिंशति, तृम्फति, दृम्फति, गुम्फति, शुम्भति, उम्भति ।।८७|| जभः स्वरे ।४।४।१००॥ जभ: स्वरात् पर: [स्वरे परे] न् अन्त: स्यात् । जम्भः ।।८८।। रध इटि तु परोक्षायामेव ।४।४।१०१॥ रधः स्वरात् पर: स्वरादौ प्रत्यये न् अन्तः स्यात्, इटादौ तु परोक्षायामेव । रन्धः, ररन्धिव । परोक्षायामेवेति किम् ? रधिता ।।८९।। । रभोऽपरोक्षा-शवि ।४।४।१०२॥ रभः स्वरात् पर: परोक्षा-शव्वर्जे स्वरादौ प्रत्यये न् अन्तः स्यात् । आरम्भः । अपरोक्षाशवीति किम् ? आरेभे, आरभते ।।९०॥ लभः ।४।४।१०३॥ लभ: स्वरात् पर: परोक्षा-शव्वर्जे स्वरादौ [प्रत्यये न् अन्त: स्यात् । लम्भक: ||९ || आङो यि ।४।४।१०४॥ आङ: परस्य लभ: स्वरात् परो यादौ प्रत्यये न् अन्त: स्यात् । आलम्भ्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy