________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्।
किम् ? ससृव ; ववृव, ववृवहे ; बभर्थ,++ तुष्टोथ, दुद्रोथ, शुश्रोथ, सुस्रोथ
|७४||
घसेकस्वराऽऽतः कंसोः ।४।४।८२॥ घसेरेकस्वराद् आदन्ताच धातोः परस्य कंसोः परोक्षाया आदिरिट स्यात् । जक्षिवान्, आदिवान्, ययिवान् । परोक्षाया इत्येव, विद्वान् ।।७५।।
गम-हन-विद्ल-विश-दृशो वा ।४।४।८३॥ एभ्य: परस्य कंसोरादिरिट् वा स्यात् । जग्मिवान्, जगन्वान् ; जनिवान्, जघन्वान् ; विविदिवान् ; विविद्वान्, विविशिवान्, विविश्वान् ; ददृशिवान्, ददृश्वान् ।।७६।।
सिचोऽञ्जः ।४।४।८४॥ अ): सिच आदिरिट् स्यात् । आञ्जीत् ।।७७||
धूग्-सु-स्तोः परस्मै ।४।४।८५॥ एभ्यः परस्मैपदे सिच आदिरिट् स्यात् । अधावीत्, असावीत्, अस्तावीत् । परस्मै इति किम् ? अधोष्ट ।।७८।।
यमि-रमि-नम्यातः सोऽन्तश्च ।४।४।८६॥ एभ्य आदन्तेभ्यश्च परस्मैपदे सिच आदिरिट् स्यात्, एषां च सन्तः । अयंसीत्, व्यरंसीत्, अनंसीत्, अयासिष्टाम् ।।७९।।
ईशीडः से-ध्वे-स्व-ध्वमोः ।४।४८७॥ आभ्यां वर्त्तमानासे-ध्वयोः पञ्चमीस्व-ध्वमोश्चादिरिट् स्यात् । ईशिषे, ईशिध्वे, ईशिष्व, ईशिध्वम् ; ईडिपे, ईडिध्वे, ईडिष्व, ईडिध्वम् ।।८०॥
रुत्पञ्चकाच्छिदयः ।४।४।८८॥ रुदादेः पञ्चत: परस्य यवर्जव्यञ्जनादे: शित आदिरिट् स्यात् । रोदिति, स्वपिति । अयिति (अय इति) किम् ? रुद्यात् ।।८१।।
दि-स्योरीट् ।४।४।८९॥ रुत्पञ्चकात् दिस्योः शितोरादिरीट् स्यात् । अरोदीत्, अरोदी: ।।८२।।
अदश्वाऽट् ।४।४।९०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org