________________
१३२
स्वोपज्ञरहस्यवृत्तिविभूषितं
दमादीनां णौ क्तान्तानामेते वा निपात्यन्ते । दान्त:, दमित:, शान्त:, शमित: ; पूर्णः, पूरित: ; दस्त: दासित: ; + स्पष्टः, स्पाशितः ; छन्न:, छादितः ; ज्ञप्तः, ज्ञापितः ॥६८।।
श्वस-जप-वम-रुष-त्वर-संघुषा-ऽऽस्वना-ऽमः।४।४।७५॥ एभ्यः क्तयोरादिरिट् वा न स्यात् । श्वस्त:, श्वसितः ; विश्वस्तवान्, विश्वसितवान् । जप्तः, जप्तवान् ; जपितः, जपितवान् । वान्तः, वान्तवान् ; वमित:, वमितवान् । रुष्टः, रुष्टवान् ; रुषित:, रुषितवान् । तूर्णः, तूर्णवान् ; त्वरितः, त्वरितवान् । संघुष्टी, संघुषितौ दम्यौ ; संपुष्टवान्, संघुषितवान् । आस्वान्तः, आस्वनितः ; [आस्वान्तवान्, आस्वनितवान् ।] आभ्यान्तः, आभ्यान्तवान् ; आ(अ)भ्यमित:,आ( अ)भ्यमितवान् ।।६९।।
हृषेः केश-लोम-विस्मय-प्रतिघाते ।४।४।७६॥ हषेः केशाद्यर्थात् क्तयोरादिरिट् वा न स्यात् । हृष्टाः हृषिता: केशा: ; हृष्टं हषितं लोमभिः ; हृष्टो हृषितश्चैत्रः ; हृष्टाः हृषिता: दन्ताः ॥७०।।
सृजि-दृशि-स्कृ-स्वरा-ऽत्वतस्तृज्नित्यानिटस्थवः ।४।४।७८॥ _सृजि-दृशिभ्यां स्कृग: स्वरान्तादत्वतश्च तृचि नित्याऽनिटो विहितस्य थव आदिरिट् वा न स्यात् । सस्रष्ठ, ससर्जिथ ; दद्रष्ठ, ददर्शिथ ; सञ्चस्कर्थ, सञ्चस्करिथ ; ययाथ, ययिथ ; पपक्थ, पेचिथ । तृनित्यानिट इति किम् ? ररन्धिथ, शिश्रयिथ । विहितविशेषणं किम् ? चकर्षिथ ।।७१।।
ऋतः।४।४७९॥ ऋदन्तात् तृनित्यानिटो विहितस्य थव आदिरिट् न स्यात् । जहर्थ । तृग्नित्यानिट इत्येव, सस्वरिथ ॥७२।।
__ ऋ-वृ-व्ये-ऽद इट् ।४।४।८०॥ एभ्यः परस्य थव आदिरिट् स्यात् । आरिथ, ववरिथ, संविव्ययिथ, आदिथ ||७३।।
स्क्रसृ-वृ-भू-स्तु-द्रु-श्रु-स्रोर्व्यञ्जनादेः परोक्षायाः।४।४।८१॥ स्कृग: स्रादिवर्जेभ्यश्च सर्वधातुभ्य: परस्या: परोक्षायाः व्यञ्जनादेरादिरिट स्यात् । संचस्करिव, ददिव, चिच्यिवहे । स्क्रिति किम् ? चकृव । स्रादिवर्जनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,