________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
१३१
स्वार्थार्थस्य सन आदिरिट् न स्यात् । जुगुप्सते ।।५९।।
डीय-इव्यैदितः क्तयोः ।४।४।६१॥ डीयते: श्वेरैदिभ्यश्च धातुभ्य: परयो: क्त-क्तवन्त्वोरादिरिट् न स्यात् । डीनः, डीनवान् ; शून:, शूनवान् ; त्रस्तः, त्रस्तवान् ।।६०॥
वेटोऽपतः ।४।४।६२॥ अपतो विकल्पितेटो धातोरेकस्वरात् परयो[ : क्तयो]रादिरिट न स्यात् । रद्धः, रद्धवान् । अपत इति किम् ? पतित: ॥६१।।
सं-नि-वेरर्दः ।४।४।६३॥ एभ्यः पराद् अर्देः परयोः क्तयोरादिरिट न स्यात् । समर्णः, समर्णवान् ; न्यर्णः, न्यर्णवान् ; व्यर्णः, व्यर्णवान् । संनिवेरिति किम् ? अर्दितः ।।६२॥
अविदूरेऽभेः ।४।४६४॥ अभे: पराद् अर्देः परयो[ : क्तयो]रविदूरेऽर्थे आदिरिट् न स्यात् । अभ्यर्णम् । अविदूर इति किम् ? अभ्यर्दितो दीन: शीतेन ॥६३।।
कषः कृच्छ्र-गहने ।४।४।६७॥ अनयोरर्थयोः कषेः परयोः क्तयोरादिरिट् न स्यात् । कष्टं दुःखम्, कष्टोऽग्निः, कष्टं वनं दुरवगाहम् । कृच्छ्र इति किम् ? कषितं स्वर्णम् ।।६४।।
घुषेरविशब्दे।४।४।६८॥ अविशब्दार्थाद् घुषेः परयो: क्तयोरादिरिट न स्यात् । घुष्टा रज्जुः, घुष्टवान् । अविशब्द इति किम् ? अवघुषितं वाक्यम् ॥६५।।
आदितः ।४।४७१॥ आदितो धातो: परयो: क्तयोरादिरिट् न स्यात् । मिन्नः, मित्रवान् ॥६६॥
नवा भावा-ऽऽरम्भे ।४।४।७२॥ आदितो भावा-ऽऽरभ्भार्थयोः क्तयोरादिरिट् वा [न] स्यात् । मिन्नम्, मेदितम् ; प्रमिन्नः, प्रमेदितः, प्रमिन्नवान्, प्रमेदितवान् ।।६७।।
णौ दान्त-शान्त-पूर्ण-दस्त-स्पष्ट-च्छन्न-ज्ञप्तम् ।४।४।७४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org