SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १२८ स्वोपज्ञरहस्यवृत्तिविभूषितं वृषीष्ट, वरिषीष्ट ; आस्तीर्षीष्ट, आस्तरिषीष्ट । आत्मने इति किम् ? प्रावारीत् ||३५|| संयोगाद् ऋतः ।४।४॥३७॥ धातो: संयोगात् परो य ऋत् तदन्तात् परयोरात्मनेपदविषयसिजाशिषोरादिरिट वा स्यात् ।] अस्मृषाताम्, अस्मरिषाताम् । संयोगादिति किम् ? अकृत ॥३६।। धूगौदितः ।४।४।३८॥ धूग औदितश्च परस्य स्ताद्यशित आदिरिट् वा स्यात् । धोता, धविता ; रद्धा, रधिता ॥३७॥ निष्कुषः ।४।४।३९॥ निष्पूर्वात् कुष: परस्य स्ताद्यशित आदिरिट् वा स्यात् । निष्कोष्टा, निष्कोषिता ||३८॥ क्तयोः ।४।४।४०॥ निष्कुषः परयो[ : क्तयो]रादिरिट नित्यं स्यात् । निष्कुषितः, निष्कुषितवान् ॥३९।। जु-व्रश्चः क्त्वः ।४॥४॥४१॥ आभ्यां परस्य क्त्व आदिरिट् स्यात् । जरीत्वा, ब्रश्चित्वा ॥४०॥ ऊदितो वा ।४।४॥४२॥ ऊदित: परस्य क्त्व आदिरिट् वा स्यात् । दान्त्वा, दमित्वा ॥४१।। क्षुध-वसस्तेषाम् ।४।४॥४३॥ आभ्यां परेषां क्त-क्तवन्तु-क्त्वामादिरिट् स्यात् । क्षुधितः, क्षुधितवान्, क्षुधित्वा ; उषितः, उषितवान्, उषित्वा ॥४२।। लुभ्यञ्चेर्विमोहाचें ।४।४।४४॥ आभ्यां यथासंख्यं विमोहन-पूजार्थाभ्यां परेषांक्त-क्तवन्तु-क्त्वामादिरिट् स्यात् । विलुभितः, विलुभितवान्, लुभित्वा ; अञ्चित:, अश्चितवान्, अश्चित्वा। विमोहार्च इति किम् ? लुब्धो जाल्म:, उदक्तं जलम् ॥४३॥ पूङ्-क्लिशिभ्यो नवा ।४।४।४५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy