________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
ह्यस्तन्यामद्यतनी-क्रियातिपत्त्योश्च विषये धातोरादिरट् स्यात्, न तु माङ्योगे । अयात्, अयासीत्, अयास्यत् । अमाङेति किम् ? मा स्म कार्षीत् । धातोरिति किम् ? प्रायाः ।।२८||
एत्यस्तेर्वृद्धिः ।४।४॥३०॥ इणिकोरस्तेश्चाऽऽदेस्तन्यां विषये वृद्धिः स्यात्, न तु माङा । आयन्, अध्यायन्, आस्ताम् । अमाडेत्येव, मा स्म ते यन् ।।२९॥
स्वरादेस्तासु।४।४॥३१॥ स्वरादेर्धातोरादेरद्यतनी-क्रियातिपत्ति-शस्तनीषु विषये वृद्धिः स्यात्, अमाङा । आटीत्, ऐषिष्यत्, औज्झत् । अमाडेत्येव, मा सोऽटीत् ।।३०॥
स्तायशितोऽत्रोणादेरिट ।४।४॥३२॥ धातो: परस्य सादेस्तादेश्वाऽशित आदिरिट् स्यात्, न तुत्रोणाद्यो: । लविष्यति, लविता । स्तादीति किम् ? भूयात् । अशित इति किम् ? आस्से । अत्रोणादेरिति किम् ? शस्त्रम्, वत्सः , हस्त: ।।३१।।
तेर्ग्रहादिभ्यः ।४।४।३३॥ एभ्य एव परस्य स्ताद्यशित: तेरादिरिट् स्यात् । निगृहीति:, अपस्निहितिः । ग्रहादिभ्य इति किम् ? शान्तिः ॥३२।।
गृह्णोऽपरोक्षायां दीर्घः ।४।४।३४॥ ग्रहेयो विहित इट् तस्य दीर्घ: स्यात्, न तु परोक्षायाम्। ग्रहीता। अपरोक्षायामिति किम् ? जगृहिव ।।३३।। .
वृतो नवाऽनाशी:-सिच्परस्मै च ।४।४॥३५॥ वृभ्यामृदन्तेभ्यश्च परस्येटो दीर्घो वा स्यात्, न तु परोक्षा-ऽऽशिषोः सिचि [च] परस्मैपदे । प्रावरीता, प्रावरिता ; वरीता, वरिता ; तितरीषति, तितरिषति । परोक्षादिवर्जनं किम् ? ववरिथ, तेरिथ, प्रावरिषीष्ट, आस्तरिषीष्ट, प्रावारिषुः, आस्तारिषुः ॥३४।।
इट् सिजाशिषोरात्मने ।४।४।३६॥ वृद्भयां परयोरात्मनेपदविषये सिजाशिषोरादिरिट् वा स्यात् । [प्रावृत, प्रावरिष्ट ; अवृत, अवरीष्ट ; आस्तीष्ट, आस्तरिष्ट ; प्रावृषीष्ट, प्रावरिषीष्ट ;
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org