SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं एषां परोक्षायाम् ऋर्वा स्यात् । विशश्रतुः ; विशशरतुः, विदद्रतुः, विददरतुः ; निपप्रतुः, निपपरतुः ||१९|| नो वध आशिष्य १२६ |४|४|२१|| आशीर्विषये हन्तेर्वधः स्यात् [ न तु ञिटि । वध्यात् । अञाविति किम् ? घानिषीष्ट ॥२०॥ अद्यतन्यां वा त्वात्मने | ४|४|२२|| अद्यतन्यां विषये हनो वधः स्याद्, ] आत्मनेपदे तु वा । अवधीत् ; आवधिष्ट, आहत ||२१|| इणिकोर्गा | ४|४|२३॥ इणिकोरद्यतन्यां गाः स्यात् । अगात्, अध्यगात् ||२२|| णावज्ञाने गमुः | ४|४|२४|| इणिकोरज्ञानार्थयोर्णौ गमः स्यात् । गमयति, अधिगमयति गाम् । अज्ञान इति किम् ? अर्थान् प्रत्याययति ||२३|| सनीङ | ४|४|२५॥ इङ इणिकोश्चाऽज्ञानार्थयोः सनि गमुः स्यात् । अधिजिगांसते, जिगमिषति ग्रामम्, मातुरधिजिगमिषति ||२४|| गा परोक्षायाम् | ४|४|२६ ॥ इङः परोक्षाविषये गाः स्यात् । अधिजगे || २५ ॥ णौ सन् - ङे वा | ४|४|२७|| इङो गा वा स्यात् । सन्-ङपरे सन् ङपरे णौ इङो । अधिजिगापयिषति, अध्यापिपयिषति ; अध्यजीगपत्, अध्यापिपत् । णाविति किम् ? अधिजिगांसते । सन्-ङ इति किम् ? अध्यापयति ||२६|| वाऽयतनी - क्रियातिपत्त्योर्गीङ् |४|४|२८|| I अनयोरिङो गीङ् वा स्यात् । अध्यगीष्ट अध्यैष्ट; अध्यगीष्यत, अध्यैष्यत अड् धातोरादिर्ह्यस्तन्यां चाऽमाङा |४|४|२९|| ॥२७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy