SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १२५ स्वरान्तादुपसर्गात् परस्य धावर्जस्य दासंज्ञस्य तादौ किति त्त् नित्यं स्यात् । प्रत्त्तः, परीत्रिमम् । उपसर्गादिति किम् ? दधि दत्तम् । स्वरादिति किम् ? निर्दत्तम् । द इति किम् ? प्रदाता व्रीहयः । तीति किम् ? प्रदाय । अध इति किम् ? निधीत: ।।९।। दत् ।४।४।१०॥ अधो दासंज्ञस्य तादौ किति दत् स्यात् । दत्तः, दत्ति: । अध इत्येव, धीत: ॥१०॥ दो-सो-मा-स्थ इ।४।४।११॥ एषां तादौ किति इ: स्यात् । निर्दित:, सित्वा, मितिः, स्थितवान् ।११।। छा-शोर्वा ।४।४।१२॥ छा-शोस्तादौ किति इर्वा स्यात् । अवच्छितः, अवच्छात: ; निशित:, निशात: ॥१२॥ हाको हि क्त्वि ।४॥४॥१४॥ हाकस्तादौ किति क्त्वायां हि: स्यात् । हित्वा । क्त्वीति किम् ? हीनः । तीत्येव, प्रहाय ।।१३।। धागः ॥४॥४॥१५॥ धागस्तादौ किति हि: स्यात् । विहितः, हित्वा ।।१४॥ यपि चाऽदो जग्ध् ।४।४।१६॥ तादौ किति यपि चाऽदेणग्ध् स्यात् । जग्धिः, प्रजग्ध्य ॥१५॥ घस्ल सनद्यतनी-घत्रचलि ।४।४।१७॥ एष्वदेर्घस्ल[:] स्यात् । जिघत्सति, अघसत्, घासः, प्रघसः ।।१६।। परोक्षायां नवा ।४।४।१८॥ अदेः परोक्षायां घस्ल[र्वा] स्यात् । जक्षुः, आदुः ।।१७।। वेर्वय् ।४।४।१९॥ वेग: परोक्षायां वय् वा स्यात् । ऊयुः, ववु: ।।१८|| ऋः शृ-दृ-प्रः ।४॥४॥२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy