SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १२४ स्वोपज्ञरहस्यवृत्तिविभूषितं [चतुर्थाध्याये चतुर्थः पादः] अस्ति-ब्रुवोर्भू-वचावशिति ।४।४।१॥ अस्ति-ब्रुवोर्यथासङ्खयं भू-वचौ स्याताम् अशिति विषये । भव्यम्, अवोचत् । अशितीति किम् ? स्यात्, ब्रूते ।।१।। ____ अघञ्क्य बलच्यजेर्वी।४।४।२॥ अघञादावशिति विषये अजेर्वी स्यात् । प्रवेयम् । अघञ्क्यबलि(लची)ति किम् ? समाज:, समज्या, उदज: पशु:(शो: ?), अज: ।।२।। त्रने वा ।४॥४॥३॥ त्रनयोर्विषयभूतयोरजेर्वी वा स्यात् । प्रवेता, प्राजिता ; प्रवयणः, प्राजनो दण्डः ॥३॥ चक्षो वाचि क्शांग्-ख्यांग् ।४।४।४॥ चक्षो वागर्थस्याऽशिति विषये क्शांग्-ख्यांगौ स्याताम् । आक्शास्यति, आक्शास्यते; आख्यास्यति, आख्यास्यते ; आख्येयम् । वाचीति किम् ? बोधे विचक्षणः ॥४॥ नवा परोक्षायाम् ।४।४।५॥ चक्षो वाचि क्शांग्-ख्यांगौ परोक्षायां वा स्याताम् । आचक्शौ, आचख्यौ, आचचक्षे ॥५॥ भृज्जो भर्ख ।४।४।६॥ भृज्जतेरशिति भर्ख वा स्यात् । भा, भ्रष्टा ।।६।। प्राद् दागस्त्त आरम्भे क्ते ।४।४॥७॥ आरम्भार्थस्य प्रपूर्वस्य दाग: क्ते परे त् वा स्यात् । प्रत्त्तः, प्रदत्त: । प्रादिति किम् ? परीत्तम् । दस्ति [३।२।८८] इति दीर्घः ।।७।। नि-वि-स्वन्ववात् ।४।४।८॥ एभ्यः परस्य दाग: क्ते त् वा स्यात् । नीत्त्तम्, निदत्तम् ; वीत्त्तम्, विदत्तम् ; सूत्तम्, सुदत्तम् ; अनूत्तम्, अनुदत्तम् ; अवत्त्तम्, अवदत्तम् ।।८।। स्वरादुपसर्गाद् दस्ति कित्यधः ।४।४॥९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy