________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
१२९
पूङ: क्लिशिभ्यां च परेषां क्त-क्तवन्तु-क्त्वामादिरिड् वा स्यात् । पूतः, पूतवान्, पूत्वा ; पवितः, पवितवान्, पवित्वा । क्लिष्टः, क्लिष्टवान्, क्लिष्ट्वा ; क्लिशितः, क्लिशितवान्, क्लिशित्वा ।।४४।।
सह-लुभेच्छ-रुष-रिषस्तादेः ।४।४।४६॥ __एभ्य: परस्य स्ताद्यशितस्तादेरिट वा स्यात् । सोढा, सहिता ; लोब्धा, लोभिता ; एष्टा, एषिता ; रोष्टा, रोषिता ; रेष्टुम्, रेषितुम् ॥४५।। इवृध-भ्रस्ज-दम्भ-श्रि-यूणु-भर-ज्ञपि-सनि-तनि-पति-वृद्-दरिद्रः सनः ।४।४।४७॥
इवन्ताद् ऋधादिभ्य ऋदन्तेभ्यो दरिद्रश्च परस्य सन आदिरिट् वा स्यात् । दुयूषति, दिदेविषति ; ईर्त्सति, अदिधिषति ; बिभक्षति, बिभर्जिति ; धिप्सति, दिदम्भिषति ; शिश्रीषति, शिश्रयिषति ; युयूषति, यियविषति ; प्रोणुनूषति, प्रोणुनविषति ; 'बुभूषति, बिभरिषति ; ज्ञीप्सति, जिज्ञपयिषति ; सिषासति, सिसनिषति ; तितंसति, तितनिषति ; पित्सति, पिपतिषति ; प्रावुवूर्षति, प्राविवरिषति ; वुवूर्णते, विवरीषते ; तितीर्षति, तितरीषति ; दिदरिद्रासति, दिदरिद्रिषति ।।४६॥
ऋ-स्मि-पूङञ्जशौ-कृ-गृ-ह-धृ-प्रच्छः ।४।४।४८॥ एभ्यः परस्य सन आदिरिट् स्यात् । अरिरिषति, सिस्मयिषते, पिपविषते, अञ्जिजिषति, अशिशिषते, चिकरीषति, जिगरीषति, आदिदरिषते, आदिधरिषते, . पिपृच्छिषति ॥४७॥
... हनृतः स्यस्य ।४।४॥४९॥ हन्ते: ऋदन्ताच्च परस्य स्यस्याऽऽदिरिट् स्यात् । हनिष्यति, करिष्यति ॥४८।।
कृत-चूत-नृत-च्छृद-तृदोऽसिचः सादेर्वा ।४।४।५०॥ एभ्य: परस्याऽसिच: सादेः स्ताद्यशित आदिरिट् वा स्यात् । कर्त्यति, कर्तिष्यति ; चिनृत्सति, चिचर्त्तिषति ; नय॑ति, नतिष्यति ; अच्छमंत्, अच्छर्दिष्यत् ; तितृत्सति, तितर्दिषति । असिच इति किम् ? अकर्तीत् ॥४९।।
गमोऽनात्मने।४।४५१॥ गमः परस्य स्ताद्यशित: सादेरादिरिट् स्यात्, न त्वात्मनेपदे । गमिष्यति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org