SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १२२ स्वोपज्ञरहस्यवृत्तिविभूषितं घ्रा-ध्मोर्यङि ई: स्यात् । जेघ्रीयते, देध्मीयते ॥९६।। हनो नी वधे ।४।३।९९॥ हन्तेर्वधार्थस्य यङि घ्नी: स्यात् । जेन्नीयते । वध इति किम् ? गतौ जङ्घन्यते ।।९७|| णिति घात् ।४।३।१००॥ जिति णिति च परे हन्तेर्घात् स्यात् । घात:, घातयति ॥९८।। जि-णवि घन् ।४।३।१०१॥ जौ णवि च परे हन्तेर्घन् स्यात् । अघानि, जघान ।।९९।। नशेर्नेश् वाऽङि ।४।३।१०२॥ नशेरङि नेश् वा स्यात् । अनेशत्, अनशत् ।।१००। श्वयत्यसू-वच-पतः श्वा-ऽऽस्थ-वोच-पप्तम् ।४।३।१०३॥ एषामङि यथासङ्ख्यं श्वादय: स्युः । अश्वत्, आस्थत्, अवोचत्, अपप्तत् ।।१०१|| शीङ एः शिति ।४।३।१०४॥ शीङ: शित्ये: स्यात् । शेते ।।१०२।। विङति यि शय् ।४।३।१०५॥ शीङ: डिति यादौ शय् स्यात् । शय्यते, शाशय्यते । विडतीति किम् ? शेयम् ।।१०३।। उपसर्गादूहो ह्रस्वः ।४।३।१०६॥ उपसर्गात् परस्योहतेरूत: डिति यादौ परे ह्रस्व: स्यात् । समुह्यते । उपसर्गादिति किम् ? ऊह्यते । यीत्येव, समूहितम् । ऊ ऊह इति प्रश्लेषवचनं किम् ? आ ऊह्यते ओह्यते, समोह्यते ।।१०४।। आशिषीणः ।४।३।१०७॥ उपसर्गात् परस्येण ईत: डिति यादावाशिषि ह्रस्व: स्यात् । उदियात् । ई इण इति प्रश्लेष: किम् ? आ ईयात्=एयात्, समेयात् ।।१०५।। दीर्घश्वि-यङ्-यक्-क्येषु च ।४।३।१०८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy