SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । १२१ क्षय्य-जय्यौ शक्तौ ।४।३।९०॥ क्षि-ज्योरन्तस्य [शक्तौ] गम्यायां ये प्रत्ययेऽय् निपात्यते । [क्षय्यो व्याधिः, जय्य: शत्रुः । शक्ताविति किम् ? क्षेयम, जेयम् ।।८८॥ क्रय्यः क्रयार्थे ।४।३।९१॥ क्रियोऽन्तस्य ये प्रत्ययेऽय् निपात्यते,] क्रयाय चेत् प्रसारितोऽर्थः । क्रय्यो गौः । क्रयार्थ इति किम् ? क्रेयं ते धान्यं न चास्ति प्रसारितम् ।।८९|| सस्तः सि ।४।३।९२॥ धातोः सन्तस्याऽशिति सादौ प्रत्यये विषयभूते त् स्यात् । वत्स्यति । स इति किम् ? यक्षीष्ट । सीति किम् ? वसिषीष्ट ।।९०॥ दीय दीङः ङिति स्वरे ।४।३१९३॥ दीङ: डिति अशिति स्वरे दीय् स्यात् । उपदिदीयाते । विडतीति किम् ? उपदानम् । स्वर इति किम् ? उपदेदीयते ।।९१।। इडेत्-पुसि चाऽऽतो लुक् ।४।३।९४॥ क्ङित्यशिति स्वरे, इटि, एति, पुसि च परे आदन्तस्य धातोर्लुक् स्यात् । पपुः, अदधत्, पपिथ, व्यतिरे, अदुः ।।९२।। संयोगादेर्वाऽऽशिष्येः ।४।३।९५॥ धातो: संयोगादेरादन्तस्य क्डित्याशिषि एर्वा स्यात् । ग्लेयात्, ग्लायात् । [संयोगादेरिति किम् ? यायात् । क्डितीत्येव, ग्लासीष्ट ।।९३।। गा-पा-स्था-सा-दा-मा-हाकः ।४।३।९६॥ एषां क्डित्याशिष्ये: स्यात् । गेयात्,] पेयात्, स्थेयात्, अवसेयात्, देयात्, धेयात्, मेयात्, हेयात् ।।९४।। ई व्यञ्जनेऽयपि ।४।३।९७॥ ___ गादेर्यब्वर्जे क्डित्यशिति व्यञ्जनादौ ई: स्यात् । गीयते, जेगीयते, पीयते, स्थीयते, सीयते, दीयते, धीयते, मीयते, हीनः । व्यञ्जन इति किम् ? तस्थुः । अयपीति किम् ? प्रगाय ।।९५|| घ्रा-ध्मोर्यङि ।४।३।९८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy