SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं धातोर्व्यञ्जना[न्ता]त् परस्य योऽशिति प्रत्यये लुक् स्यात् । जङ्गमिता । व्यञ्जनादित्येव, लोलूयिता । अशितीति किम् ? बेभिद्यते ||७८ || क्यो वा | ४ | ३ |८१ ॥ १२० धातोर्व्यञ्जना[न्ता]त् परस्य क्योsशिति विषये (प्रत्यये) लुग् वा स्यात् समिधिष्यति, समिध्यिष्यति ; दृषदिष्यते, दृषधिष्यते ॥ ७९ ॥ अतः |४|३|८२॥ अदन्ताद् धातोर्विहितेऽशिति प्रत्यये अतो लुक् स्यात् । कथयति । [ विहितविशे षणं किम् ? गतः ||८०|| णेरनिटि | ४ | ३ |८३ ॥ अनिट्यशिति प्रत्यये गेर्लुक् स्यात् ।] अततक्षत्, चेतनः । अनिटीति किम् ? कारयिता ॥ ८१ ॥ सेट्क्तयोः ।४|३|८४॥ सेटो: क्तयोः परयोः णेर्लुक् स्यात् । कारितः, गणितवान् ॥८२॥ आमन्ता ऽऽल्वाऽऽय्येत्नावय् | ४|३|८५ ॥ एषु परेषु रय् स्यात् । कारयाञ्चकार, गण्डयन्तः, स्पृहयालुः, महयाय्यः, स्तनयित्नुः ||८३|| लघोर्यपि |४|३|८६ ॥ लघोः परस्य णेर्यपि अय् स्यात् । प्रशमय्य । लघोरिति किम् ? प्रतिपाद्य 116811 बाऽऽप्नोः ।४।३।८७॥ आप्नोः परस्य णेर्यप्यय् वा स्यात् । प्रापय्य, प्राप्य । आप्नोरिति किम् ? : अध्याप्य || ८५ ॥ मेङ वा मित् | ४ | ३ |८८॥ ङो यपि मद् वा स्यात् । अपमित्य, अपमाय ॥ ८६ ॥ क्षेः क्षी | ४ | ३|८९ ॥ क्षेर्यपि क्षी: स्यात् । प्रक्षीय || ८७ ||| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy