SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं ; ; यङ्लुबन्तात् तु-रु-स्तुभ्यश्च परो व्यञ्जनादौ विति ईद् बहुलं परादिः स्यात् । कचिद्वा - बोभवीति, बोभोति कचिन्न वर्वर्त्ति तवीति, तौति ; रवीति, रौति ; स्तवीति, स्तौति । अद्वेरित्येव, तुतोथ, तुष्टो सः सिजस्तेर्दि-स्योः | ४ | ३ |६५ || ||६२|| ११८ सिजन्ताद् धातोरस्तेश्च सन्तात् परो दि- स्योः परयोः परादिरीत् स्यात् । अकार्षीत्, अकार्षीः ; आसीत्, आसीः । स इति किम् ? अदात् ||६३ || पिबैति-दा-भू-स्थः सिचो लुप् परस्मै न चेट् | ४ | ३६६॥ एभ्यः परस्य सिचः परस्मैपदे लुप् स्यात्, लुब्योगे च नेट् । अपात्, अगात्, अध्यगात्, अदात्, अधात्, अभूत्, अस्थात् । परस्मै इति किम् ? अपासत पयांसि तैः ||६४|| - प्रा शा छा -सो वा |४|३|६७॥ एभ्यः परस्य सिचः परस्मैपदे लुब् वा स्यात्, लुब्योगे च नेट् । अधात्, अधासीत्, अघ्रात्, अघ्रासीत् ; अशात् ; अशासीत् ; अच्छात्, अच्छासीत्, असात्, असासीत् ||६५|| तन्भ्यो वा तथासि न् - णो | ४|३|६८ ॥ तनादिभ्यः परस्य सिचस्ते थासि च लुब् वा स्यात्, [ तद्योगे नू - णोश्च लुप्, ] न चेट् । अतत, अतनिष्ठ ; अतथा:, अतनिष्ठाः ; असत, असनिष्ट ; असथा:, असनिष्ठाः ||६६|| सनस्तत्रा वा | ४|३|६९॥ सनो लुपि सत्याम् आ वा स्यात् । असात, असत ; असाथाः, असथाः । तत्रेति किम् ? असनिष्ट ||६७ || धुड्-ह्रस्वाल्लुगनिटस्त-थोः ॥४३॥७०॥ धुडन्तात् ह्रस्वान्ताच्च धातोः परस्याऽनिटः सिचस्तादौ थादौ च लुक् स्यात् । अभित्त, अभित्था:, अकृत, अकृथाः । अनिट इति किम् ? व्यद्योतिष्ट ||६८|| इट ईति | ४ | ३ |७१ || इट: परस्य सिच ईति लुक् स्यात् । अलावीत् । इट इति किम् ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy