SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं व्यञ्जनानामनिटि | ४|३|४५॥ व्यञ्जनान्तस्य धातोः परस्मैपदविषये अनिटि सिचि समानस्य वृद्धिः स्यात् । अराङ्क्षीत् । समानस्येत्येव, उदवोढाम् | अनिटीति किम् ? अतक्षीत् ||४५|| ११६ वोर्णुगः सेटि | ४ | ३ | ४६॥ ऊर्णोः सेटि 'सचि परस्मैपदे वृद्धिर्वा स्यात् । प्रौर्णावीत्, प्रौण्रवीत् ॥४६॥ [व्यञ्जनादेर्वोपान्त्यस्याङतः | ४ | ३ |४७ ॥ व्यञ्जनादेर्धातोरुपान्त्यस्याऽतः सेटि सिचि परस्मैपदे वृद्धिर्वा स्यात् । अकाणीत्, अकणीत् ।] व्यञ्जनादेरिति किम् ? मा भवान् अटीत् । उपान्त्यस्येति किम् ? अवधीत् । अत इति किम् ? अदेवीत् । सेटीत्येव, अधाक्षीत् ||४७|| वद - व्रज-लः |४|३|४८॥ वद-व्रजोर्लन्त-रन्तयोश्चोपान्त्यस्याऽस्य सेटि सिचि परस्मैपदे वृद्धिः स्यात् । अवादीत्, अव्राजीत्, अज्वालीत्, अक्षारीत् ||४८|| न श्वि-जागृ-शस-क्षण - हम्येदितः | ४|३|४९|| एषां ह्म्यन्तानाम् एदितां च परस्मैपदे सेटि सिचि वृद्धिर्न स्यात् । अश्वयीत्, अजागरीत्, अशसीत्, अक्षणीत्, अग्रहीत्, अवमीत्, अहयीत्, अकगीत् ॥ ४९ ॥ णिति | ४|३|५०| ञिति णिति च परे धातोरुपान्त्यातो वृद्धिः स्यात् | पाकः, पपाच ॥५०॥ नामिनोऽकलि-हलेः |४|३|५१|| नाम्यन्तस्य धातोर्नाम्नो वा कलि - हलिवर्जस्य णिति वृद्धिः स्यात् । अचायि, कारकः, अपीपटत् | कलि - हलिवर्जनं किम् ? अचकलत्, अजहलत् ॥५१॥ जागुर्जि - वि | ४ | ३ |५२॥ जा व्येव च णिति वृद्धिः स्यात् । अजागारि, जजागार । ञिणवीति किम् ? जागरयति ॥५२॥ आत ऐः कृञ्ञौ ।४।३।५३॥ आदन्तस्य धातोर्ष्णिति कृति ञौ च ऐ: स्यात् । दायः, दायक:, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy