SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । ११५ ऋवर्णान्ताद्धातोरनिटावात्मनेपदविषये सिजाशिषौ किद्वत् स्याताम् । अकृत, कृषीष्ट ; अतीर्ट, तीर्षीष्ट ।।३६।। गमो वा ।४।३॥३७॥ गमेरात्मनेपदविषये सिजाशिषौ किद्वद्वा स्याताम् । समगत, समगंस्त ; संगसीष्ट, संगंसीष्ट । समो गमृच्छि-प्रच्छि-श्रु-वित्स्वरत्यर्तिदृशः [३।३।८४] इत्यात्मनेपदम् ।।३७|| हनः सिच् ।४।३।३८॥ हनेरात्मनेपदविषय: सिच् किद्वत् स्यात् । आहत ।।३८|| यमः सूचने।४॥३॥३९॥ सूचनार्थाद् यमेरात्मनेपदविषय: सिच् किद्वत् स्यात् । उदायत । सूचन इति किम् ? आयस्त रज्जुम् । समुदाङो यमेरग्रन्थे [३।३।९८] इत्यात्मनेपदम् ।।३९।। वा स्वीकृतौ ।४॥३॥४०॥ वा स्वीकारार्थाद् यमेरात्मनेपदविषय: सिच् त् स्यात् । उपायत, उपायंस्त अस्त्राणि । यमः स्वीकारे [३।३।५९] इत्यात्मनेपदम् । स्वीकृताविति किम् ? आयंस्त पाणिम् ॥४०॥ इश्च स्था-दः ।४॥३॥४१॥ स्थो दासंज्ञच्चाऽऽत्मनेपदविषय: सिच् किद्वत् स्यात्, तद्योगे स्थादोरिश्च । उपास्थित, आदित, व्यधित ।।४१।। मृजोऽस्य वृद्धिः ।४।३॥४२॥ मृजेर्गुणे सति अस्य वृद्धि: स्यात् । मार्टि । अत इति किम् ? मृष्टः ।।४२।। ऋतः स्वरे वा ।४।३॥४३॥ मृजे: ऋत: स्वरादौ प्रत्यये वृद्धिर्वा स्यात् । परिमार्जन्ति, परिमृजन्ति । ऋत इति किम् ? ममार्ज । स्वर इति किम् ? मृज्वः ।।४३।। सिचि परस्मै समानस्याऽङिति ।४।३।४४॥ समानान्तस्य धातोः परस्मैपदविषये सिच्यङिति वृद्धि: स्यात् । अचैषीत् । परस्मै इति किम् ? अच्योष्ट । समानस्येति किम् ? अगवीत् । अङितीति किम् ? न्यनुवीत् ।।४४।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy