SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं ; ; शयितवान्, पवितः पवितवान् प्रधर्षितः प्रधर्षितवान् प्रवेदितः, प्रक्ष्वेदितवान् ; प्रस्वेदितः, प्रस्वेदितवान् ; प्रमेदितः, प्रमेदितवान् । सेटावित्येव, डीन:, डीनवान् ||२७|| ११४ मृषः क्षान्तौ ।४।३।२८॥ : क्षमार्थान्मृषः सेटौ क्त क्तवन्तू किन्न स्याताम् । मर्षितः, मर्षितवान् । क्षान्ताविति किम् ? अपमृषितं वाक्यम् ||२८|| क्त्वा |४|३|२९॥ धातोः क्त्वा सेट् किद्वन्न स्यात् । देवित्वा । सेडित्येव, कृत्वा ||२९|| स्कन्द - स्यन्दः |४|३|३०| आभ्यां क्त्वा किन्न स्यात् । स्कन्त्वा, स्यन्त्वा ॥३०॥ क्षुध-क्लिश-कुष-गुध- मृड-मृद वद-वसः |४|३|३१॥ एभ्यः क्त्वा सेट् किद्वत् स्यात् । क्षुधित्वा, क्लिशित्वा, कुषित्वा, गुधित्वा, मृडित्वा, मृदित्वा, उदित्वा, उषित्वा ॥३१॥ रुद-विद‍ - - मुष-ग्रह - स्वप- प्रच्छः सन् च | ४|३|३२| [ एभ्यः सन् क्त्वा च द्वित् स्यात् । Jसं.] रुदित्वा, रुरुदिषति ; विदित्वा, विविदिषति ; मुषित्वा मुमुषिषति ; गृहीत्वा, जिघृक्षति, सुप्त्वा, सुषुप्सति ; पृष्ट्वा, पिपृच्छिषति ॥ ३२॥ नामिनोऽनिट् ।४।३।३३॥ नाम्यन्ताद्धातोरनिट् सन् किद्वत् स्यात् । चिचीषति । अनिडिति किम् ? शिशयिषते ।।३३।। उपान्त्ये ।४।३।३४॥ नामिन्युपान्त्ये सति धातोः सन् अनिट् [ किद्वत् ] स्यात् । बिभित्सति ||३४|| साशिषावात्मने । ४।३।३५॥ Jain Education International नामिन्युपान्त्ये सति धातोरात्मनेपदविषयेऽनिटौ सिजाशिषौ किद्वत् स्याताम् | अभित्त, भित्सीष्ट । आत्मने इति किम् ? अस्राक्षीत् ||३५|| [ऋवर्णात् ] |४|३|३६| For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy