________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
इन्ध्यसंयोगात् परोक्षा किद्वत् ।४।३।२१॥ इन्धेरसंयोगान्ताच्च परा अवित् परोक्षा किद्वत् स्यात् । समीधे, निन्युः । इन्ध्यसंयोगादिति किम् ? सस्रंसे ।।२१।।
स्व र्नवा ।४।३।२२॥ स्वळे: परोक्षा वा किद्वत् स्यात् । सस्वजे, सस्वळे ।।२२।।
ज-नशो न्युपान्त्ये तादिः क्त्वा ।४।३।२३॥ जन्तात् नशेश्च न्युपान्त्ये सति तादिः क्त्वा किद्वद्वा स्यात् । रक्त्वा, रङ्क्त्वा ; नष्ट्वा, नंष्ट्वा । नीति किम् ? भुक्त्वा । उपान्त्य इति किम् ? निक्त्वा । तादिरिति किम् ? विभज्य ॥२३॥ ___ऋत्-तृष-मृष-कृश-वञ्च-लुञ्च-थ-फः सेट ।४।३।२४॥
न्युपान्त्ये सत्येभ्यो वा क्त्वा सेट् किद्वत् स्यात् । ऋतित्वा, अर्त्तित्वा ; तृषित्वा, तर्षित्वा ; मृषित्वा, मर्षित्वा ; कृशित्वा, कर्शित्वा ; बचित्वा, वञ्चित्वा ; लुचित्वा, लुञ्चित्वा ; श्रथित्वा, श्रन्थित्वा ; गुफित्वा, गुम्फित्वा । न्युपान्त्य इत्येव, कोथित्वा, रेफित्वा । सेडिति किम् ? वक्त्वा ।।२४||
वौ व्यञ्जनाऽऽदेः सन् चाऽय-वः ।४।३।२५॥ वौ उदित्युपान्त्ये सति व्यञ्जनादेर्धातो: पर: क्त्वा सन् च सेटौ किद्वद्वा स्यातां न तु स्वन्तात् । द्युतित्वा, द्योतित्वा ; दिद्युतिषते, दिद्योतिषते ; लिखित्वा, लेखित्वा ; लिलिखिषति, लिलेखिषति । वाविति किम् ? वर्त्तित्वा । व्यञ्जनादेरिति किम् । ओषित्वा ।।२५।।
उति शवर्हाऽद्भ्यः क्तौ भावा-ऽऽरम्भे ।४।३।२६॥ उति उपान्त्ये सति शवहेभ्योऽदादिभ्यश्च परौ भावा-ऽऽरम्भयो: क्त-क्तवन्तू सेटौ वा किद्वत् स्याताम् । कुचितम्, कोचितमनेन ; प्रकुचितः, प्रकोचितः ; प्रकुचितवान्, प्रकोचितवान् । रुदितम्, रोदितमेभिः ; प्ररुदितः, प्ररोदितः ; प्ररुदितवान्, प्ररोदितवान् । उतीति किम् ? श्विति[त]मेभिः । शवर्हाद्य इति किम् ? प्रगुधितः । भावा-ऽऽरम्भ इति किम् ? रुचिता ।।२६।।
न-डीङ्-शीङ्-पू-धृषि-क्ष्विदि-स्विदि-मिदः ।४।३॥२७॥ एभ्य: परौ सेटौ क्त-क्तवन्तू किद्वन्न स्याताम् । डयितः, डयितवान् ; शयित:,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org