________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
क्रमो दीर्घः परस्मै ।४।२।१०९॥ क्रमे: परस्मैपदनिमित्ते शिति दीर्घः स्यात्, अत्यादौ । क्राम, क्राम्यति । परस्मैपद इति किम् ? आक्रमते सूर्यः ।।८।।
ष्ठिवू-क्लम्वाऽऽचमः ।४।२।११०॥ एषां शित्यत्यादौ दीर्घः स्यात् । ष्ठीव, क्लाम, आचाम । आडिति किम् ? चम ।।९।।
शम्सप्तकस्य श्ये।४।२।१११॥ शमादीनां सप्तानां श्ये दीर्घः । शाम्य, दाम्य, ताम्य, श्राम्य, भ्राम्य, क्षाम्य, माद्य । श्ये इति किम् ? शम्यते ।।९१।।
म-व्यस्याः ।४।२।११३॥ धातोर्विहिते मादौ वादौ चाऽत आ दीर्घ: स्यात् । पचामि, पचावः ||९२।।
अनतोऽन्तोऽदात्मने ।४।२।११४॥ अनत: परस्याऽऽत्मनेपदस्थस्याऽन्तोऽत् स्यात् । चिन्वते । आत्मने इति किम् ? चिन्वन्ति । अनत इति किम् ? पचन्ते ।।९३।।
शीङो रत् ।४।२।११५॥ शीङ: परस्याऽऽत्मनेपदस्थस्याऽन्तो रत् स्यात् । शेरते ।।९४।।
वेत्तेर्नवा ।४।२।११६॥ वेत्तेः परस्यात्मनेपदस्थस्याऽन्तो रद् वा स्यात् । संविद्रते, संविदते ।।९५||
तिवां णवः परस्मै ।४।२।११७॥ वेत्तेः परेषां परस्मैपदानां तिवादीनां परस्मैपदान्येव णवादयो नव यथासङ्ख्यं वा स्युः । वेद, विदतुः, विदुः ; वेत्थ, विदथुः, विद ; वेद, विद्व, विद्म । पक्षे वेत्तीत्यादि ।।९६।।
ब्रूगः पञ्चानां पञ्चाऽऽहश्च ।४।२।११८॥ ब्रूगः परेषां तिवादीनां पञ्चानां यथासङ्खयं पञ्च णवादयो वा स्युः, तद्योगे ब्रूग आह् च । आह, आहतुः, आहुः, आत्थ, आहथुः । पक्षे ब्रवीतीत्यादि ॥९७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org