SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं हाकः |४|२|१००॥ हाको द्वयुक्तस्य व्यञ्जनादौ शित्यविति [ आत] इर्वा स्यात् । जहितः, जहीत: 116011 १०८ आ च हौ ।४।२।१०१ ॥ हत्वा स्यात् । जहाहि, जहिहि, जहीहि ॥ ८१ ॥ यि लुक् ।४।२।१०२।। यादौ शिति हाको लुक् स्यात् । जह्यात् ||८२|| ओतः श्ये ।४।२।१०३॥ धातोरोतः श्ये लुक् स्यात् । अवद्यति । श्य इति किम् ? [गवति ||८३ || जाज्ञा - जनोत्यादौ |४ |२| १०४ ॥ ज्ञा- जनोः शिति जाः स्यात्, न त्वनन्तरे तिवादौ । जानाति, जायते । अत्यादाविति किम् ?] जाज्ञाति । जञ्जन्ति ॥८४॥ प्वादेर्हस्वः || ४|२| १०५ ॥ प्वादेः शिति अत्यादौ ह्रस्वः स्यात् । पुनाति, लुनाति । प्वादेरिति किम् ? व्रीणाति ॥ ८५ ॥ गमिषद्यमश्छः |४| २|१०६॥ एषां शित्यत्यादौ छः स्यात् । गच्छति, इच्छति, आयच्छते । अत्यादावित्येव, जङ्गन्ति ||८६|| वेगे सर्त्तेर्धाव् |४| २|१०७॥ सर्त्तेर्वेगे गम्ये शिति धाव् स्यात्, अत्यादौ । धावति । वेग इति किम् ? धर्ममनुसरति ||८७|| श्रौति कृवु-धि- पाघ्राध्मा-स्था-ना-दाम् दृश्यर्त्ति-शद-सदः शृ-कृ-धि- पिब- जिघ्र-धम - तिष्ठ - मन- यच्छ- पश्यर्च्छ-शीय-सीदम् |४|२|१०८|| एषां शित्यत्यादौ यथासंख्यम् श्रादयः स्युः । शृणु, कृणु, धिनु, पिब, जिघ्र, धम, तिष्ठ, मन, प्रयच्छ, पश्य, ऋच्छ, शीयते, सीद ॥८८॥ - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy